क्षितीशपरिपालं हृतैकघनकालम्।
भजेऽथ शिवमीशं शिवाय सुजनानाम्।
सुदैवतरुमूलं भुजङ्गवरमालम्।
भजेऽथ शिवमीशं शिवाय सुजनानाम्।
प्रपञ्चधुनिकूलं सुतूलसमचित्तम्।
भजेऽथ शिवमीशं शिवाय सुजनानाम्।
वराङ्गपृथुचूलं करेऽपि धृतशूलम्।
भजेऽथ शिवमीशं शिवाय सुजनानाम्।
सुरेषु मृदुशीलं धरासकलहालम्।
भजेऽथ शिवमीशं शिवाय सुजनानाम्।
शिवस्य नुतिमेनां पठेद्धि सततं यः।
लभेत कृपया वै शिवस्य पदपद्मम्।
मीनाक्षी स्तुति
शरशरासन- पाशलसत्करा- मरुणवर्णतनुं पररूपिणीम्। विजयदां ....
Click here to know more..गणाधिपति स्तुति
अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरासुरैः। सर्वविघ....
Click here to know more..भगवान दत्तात्रेय का आशीर्वाद प्राप्त करें
ॐ ऐं क्रों क्लीं क्लूं ह्रां ह्रीं ह्रूं सौः दत्तात्रेया....
Click here to know more..