ॐ कूं कूं कूं कूं शब्दरताय नमः । क्रूं क्रूं क्रूं क्रूं परायणाय ।
कविकण्ठस्थिताय । कै ह्रीं ह्रूं कं कं कवि पूर्णदाय । कपालकज्जलसमाय ।
कज्जलप्रियतोषणाय । कपालमालाऽऽभरणाय । कपालकरभूषणाय ।
कपालपात्रसन्तुष्टाय । कपालार्घ्यपरायणाय । कदम्बपुष्पसम्पूज्याय ।
कदम्बपुष्पहोमदाय । कुलप्रियाय । कुलधराय । कुलाधाराय । कुलेश्वराय ।
कौलव्रतधराय । कर्मकामकेलिप्रियाय । क्रतवे ।
कलह ह्रींमन्त्रवर्णाय नमः । २०
ॐ कलह ह्रींस्वरूपिणे नमः । कङ्कालभैरवदेवाय ।
कङ्कालभैरवेश्वराय । कादम्बरीपानरताय । कादम्बरीकलाय ।
करालभैरवानन्दाय । करालभैरवेश्वराय । करालाय । कलनाधाराय ।
कपर्दीशवरप्रदाय । करवीरप्रियप्राणाय । करवीरप्रपूजनाय ।
कलाधाराय । कालकण्ठाय । कूटस्थाय । कोटराश्रयाय । करुणाय ।
करुणावासाय । कौतुकिने । कालिकापतये नमः । ४०
ॐ कठिनाय नमः । कोमलाय । कर्णाय । कृत्तिवासकलेवराय । कलानिधये।
कीर्तिनाथाय । कामेन । हृदयङ्गमाय । कृष्णाय । काशीपतये । कौलाय ।
कुलचूडामणये । कुलाय । कालाञ्जनसमाकाराय । कालाञ्जननिवासनाय ।
कौपीनधारिणे । कैवर्ताय । कृतवीर्याय । कपिध्वजाय । कामरूपाय ।
कामगतये नमः । ६०
ॐ कामयोगपरायणाय नमः । कामसम्मर्दनरताय । कामगृहनिवासनाय ।
कालिकारमणाय । कालीनायकाय । कालिकाप्रियाय । कालीशाय ।
कालिकाकान्ताय । कल्पद्रुमलतामताय । कुलटालापमध्यस्थाय ।
कुलटासङ्गतोषिताय । कुलटाचुम्बनोद्युक्ताय । कुलटाकुचमर्दनाय ।
केरलाचारनिपुणाय । केरलेन्द्रगृहस्थिताय । कस्तूरीतिलकानन्दाय ।
कस्तूरीतिलकप्रियाय । कस्तूरीहोमसन्तुष्टाय । कस्तूरीतर्पणोद्यताय ।
कस्तूरीमार्जनोद्युक्ताय नमः । ८०
ॐ कस्तूरीकुण्डमज्जनाय नमः । कामिनीपुष्पनिलयाय ।
कामिनीपुष्पभूषणाय । कामिनीकुण्डसंलग्नाय । कामिनीकुण्डमध्यगाय ।
कामिनीमानसाराध्याय । कामिनीमानतोषिताय । काममञ्जीररणिताय ।
कामदेवप्रियातुराय । कर्पूरामोदरुचिराय । कर्पूरामोदधारणाय ।
कर्पूरमालाऽऽभरणाय । कूर्परार्णवमध्यगाय । क्रकसाय । क्रकसाराध्याय ।
कलापपुष्परूपकाय । कुशलाय । कुशलाकर्णये । कुक्कुरासङ्गतोषिताय ।
कुक्कुरालयमध्यस्थाय नमः । १००
ॐ काश्मीरकरवीरभृते नमः । कूटस्थाय । क्रूरदृष्टये।
केशवासक्तमानसाय । कुम्भीनसविभूषाढ्याय । कुम्भीनसवधोद्यताय नमः । कोटिकालानलाभासाय नमः । कालिकाहृदयस्थिताय नमः ।
महाविष्णु स्तुति
नमस्तुभ्यं भगवते वासुदेवाय धीमहि| प्रद्युम्नायानिरुद्....
Click here to know more..यमुना अष्टक स्तोत्र
मुरारिकायकालिमाललामवारिधारिणी तृणीकृतत्रिविष्टपा त्....
Click here to know more..शासन सत्ता के लिए मंत्र
लेखर्षभाय विद्महे वज्रहस्ताय धीमहि तन्नः शक्रः प्रचोदय....
Click here to know more..