चंद्रशेखर अष्टक स्तोत्र

चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पाहि माम्।
चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्ष माम्।
रत्नसानुशरासनं रजताद्रिश‍ृङ्गनिकेतनं
सिञ्जिनीकृतपन्नगेश्वर- मच्युताननसायकम्।
क्षिप्रदग्धपुरत्रयं त्रिदिवालयैरभिवन्दितं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः।
पञ्चपादपपुष्पगन्ध- पदाम्बुजद्वयशोभितं
भाललोचनजातपावक- दग्धमन्मथविग्रहम्।
भस्मदिग्धकलेवरं भवनाशनं भवमव्ययं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः।
मत्तवारणमुख्यचर्म- कृतोत्तरीयमनोहरं
पङ्कजासनपद्मलोचन- पूजिताङ्घ्रिसरोरुहम्।
देवसिन्धुतरङ्गसीकर- सिक्तशुभ्रजटाधरं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः।
यक्षराजसखं भगाक्षहरं भुजङ्गविभूषणं
शैलराजसुतापरिष्कृत- चारुवामकलेवरम्।
क्ष्वेडनीलगलं परश्वधधारिणं मृगधारिणं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः।
कुण्डलीकृत- कुण्डलेश्वरकुण्डलं वृषवाहनं
नारदादिमुनीश्वर- स्तुतवैभवं भुवनेश्वरम्।
अन्धकान्धक- माश्रितामरपादपं शमनान्तकं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः।
भेषजं भवरोगिणामखिला- पदामपहारिणं
दक्षयज्ञविनाशनं त्रिगुणात्मकं त्रिविलोचनम्।
भुक्तिमुक्तिफलप्रदं सकलाघसङ्घनिबर्हणं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः।
भक्तवत्सलमर्चितं निधिमक्षयं हरिदम्बरं
सर्वभूतपतिं परात्परमप्रमेय- मनुत्तमम्।
सोमवारिदभूहुताशन- सोमपानिलखाकृतिं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः।
विश्वसृष्टिविधायिनं पुनरेव पालनतत्परं
संहरन्तमपि प्रपञ्चमशेषलोक- निवासिनम्।
क्रीडयन्तमहर्निशं गणनाथयूथसमन्वितं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः।
मृत्युभीतमृकण्ड- सूनुकृतस्तवं शिवसन्निधौ
यत्र कुत्र च यः पठेन्न हि तस्य मृत्युभयं भवेत् ।
पूर्णमायु- ररोगितामखिलार्थ- सम्पदमादरं
चन्द्रशेखर एव तस्य ददाति मुक्तिमयत्नतः।

 

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

22.6K

Comments

kfdrw

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |