खड्गं कपालं डमरुं त्रिशूलं हस्ताम्बुजे सन्दधतं त्रिणेत्रम्।
दिगम्बरं भस्मविभूषिताङ्गं नमाम्यहं भैरवमिन्दुचूडम्।
कवित्वदं सत्वरमेव मोदान्नतालये शम्भुमनोऽभिरामम्।
नमामि यानीकृतसारमेयं भवाब्धिपारं गमयन्तमाशु।
जरादिदुःखौघ- विभेददक्षं विरागिसंसेव्य- पदारविन्दम्।
नराधिपत्वप्रदमाशु नन्त्रे सुराधिपं भैरवमानतोऽस्मि।
शमादिसम्पत्-प्रदमानतेभ्यो रमाधवाद्यर्चित- पादपद्मम्।
समाधिनिष्ठै- स्तरसाधिगम्यं नमाम्यहं भैरवमादिनाथम्।
गिरामगम्यं मनसोऽपि दूरं चराचरस्य प्रभवादिहेतुम्।
कराक्षिपच्छून्यमथापि रम्यं परावरं भैरवमानतोऽस्मि।
भुवनेश्वरी पंचक स्तोत्र
प्रातः स्मरामि भुवनासुविशालभालं माणिक्यमौलिलसितं सुस....
Click here to know more..हयग्रीव स्तोत्र
नमोऽस्तु नीरायणमन्दिराय नमोऽस्तु हारायणकन्धराय। नमोऽ....
Click here to know more..कठोपनिषद - भाग २७