वृथा किं संसारे भ्रमथ मनुजा दुःखबहुले
पदाम्भोजं दुःखप्रशमनमरं संश्रयत मे।
इतीशानः सर्वान्परमकरुणा- नीरधिरहो
पदाब्जं ह्युद्धृत्याम्बुजनिभ- करेणोपदिशति।
संसारानलतापतप्त- हृदयाः सर्वे जवान्मत्पदं
सेवध्वं मनुजा भयं भवतु मा युष्माकमित्यद्रिशः।
हस्तेऽग्निं दधदेष भीतिहरणं हस्तं च पादाम्बुजं
ह्युद्धृत्योपदिशत्यहो करसरोजातेन कारुण्यधिः।
ताण्डवेश्वर ताण्डवेश्वर ताण्डवेश्वर पाहि माम्।
ताण्डवेश्वर ताण्डवेश्वर ताण्डवेश्वर रक्ष माम्।
गाण्डिवेश्वर पाण्डवार्चित पङ्कजाभपदद्वयं
चण्डमुण्डविनाशिनी- हृतवामभागमनीश्वरम्।
दण्डपाणिकपालभैरव- तण्डुमुख्यगणैर्युतं
मण्डिताखिलविनष्टपं विजितान्धकं प्रणमाम्यहम्।
भासमानशरीरकान्ति- विभासिताखिलविष्टपं
वासवाद्यमृताशसेवित- पादपङ्कजसंयुतम्।
कासमानमुखारविन्द- जितामृतांशुमशेषहृद्-
वासताण्डवशङ्करं सकलाघनाशकमाश्रये।
मेरुपर्वतकार्मुकं त्रिपुरार्तनिर्जरयाचितं
ज्याकृताखिलसर्पराज- महीशतल्पसुसायकम्।
ज्यारथं चतुरागमाश्वमजेन सारथिसंयुतं
संहृतत्रिपुरं महीध्रसुतानु- मोदकमाश्रये।
गदाभृद्ब्रह्मेन्द्राद्यखिल- सुरवृन्दार्च्यचरणं
ददानं भक्तेभ्यश्चितिमखिल- रूपामनवधिम्।
पदास्पृष्टोक्षानं जितमनसिजं शान्तमनसं
सदा शम्भुं वन्दे शुभदगिरिजाष्लिष्टवपुषम्।
केदारनाथ कवच
केयूरादिविभूषितैः करतलैरत्नाङ्कितैः सुन्दरं नानाहारव....
Click here to know more..व्रजगोपी रमण स्तोत्र
असितं वनमालिनं हरिं धृतगोवर्धनमुत्तमोत्तमम्। वरदं करु....
Click here to know more..सुरक्षा के लिए महिषामर्दिनी मंत्र
महिषमर्दिनि स्वाहा । महिषहिंसिके हुं फट् । महिषशत्रो शा....
Click here to know more..