कश्चन जगतां हेतुः कपर्दकन्दलितकुमुदजीवातुः।
जयति ज्ञानमहीन्दुर्जन्मस्मृतिक्लान्तिहरदयाबिन्दुः।
श्रितभृतिबद्धपताकः कलितोत्पलवननवमदोद्रेकः।
अखिलाण्डमातुरेकः सुखयत्वस्मान् तपःपरीपाकः।
कश्चन कारुण्यझरः कमलाकुचकलशकषणनिशितशरः।
श्रीमान् दमितत्रिपुरः श्रितजम्बूपरिसरश्चकास्तु पुरः।
शमितस्मरदवविसरः शक्राद्याशास्यसेवनावसरः।
कविवनघनभाग्यभरो गिरतु मलं मम मनःसरः शफरः।
गृहिणीकृतवैकुण्ठः गेहितजम्बूमहीरुडुपकण्ठम्।
दिव्यं किमप्यकुण्ठं तेजःस्तादस्मदवनसोत्कण्ठम्।
कृतशमनदर्पहरणं कृतकेतफणितिचारिरथचरणम्।
शक्रादिश्रितचरणं शरणं जम्बुद्रुमान्तिकाभरणम्।
करुणारसवारिधये करवाणि नमः प्रणम्रसुरविधये।
जगतामानन्दनिधये जम्बूतरुमूलनिलयसन्निधये।
कश्चन शशिचूडालं कण्ठेकालं दयौघमुत्कूलम्।
श्रितजम्बूतरुमूलं शिक्षितकालं भजे जगन्मूलम्।
दक्षिणामूर्ति द्वादश नाम स्तोत्र
अथ दक्षिणामूर्तिद्वादशनामस्तोत्रम् - प्रथमं दक्षिणामू....
Click here to know more..वटुक भैरव कवच
धारयेत्पाठायेद्वापि सम्पठेद्वापि नित्यशः। सम्प्राप्न....
Click here to know more..अज्ञान को पहचानना भी प्रभु चरण पर भक्ति के बिना नहीं होता