द्वादश ज्योतिर्लिंग स्तुति

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्।
उज्जयिन्यां महाकालमोङ्कारममरेश्वरम्।
परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम्।
सेतुबन्धे तु रामेशं नागेशं दारुकावने।
वाराणस्यां तु विश्वेशं त्र्यंबकं गोमतीतटे।
हिमालये तु केदारं घुश्मेशं च शिवालये।
एतानि ज्योतिर्लिङ्गानि सायंप्रातः पठेन्नरः।
सप्तजन्मकृतं पापं स्मरणेन विनश्यति।
एतेशां दर्शनादेव पातकं नैव तिष्ठति।
कर्मक्षयो भवेत्तस्य यस्य तुष्टा महेश्वराः।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

99.6K

Comments

bnr4c

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |