विश्वनाथ स्तोत्र

गङ्गाधरं जटावन्तं पार्वतीसहितं शिवम्|
वाराणसीपुराधीशं विश्वनाथमहं श्रये|
ब्रह्मोपेन्द्रमहेन्द्रादि- सेविताङ्घ्रिं सुधीश्वरम्|
वाराणसीपुराधीशं विश्वनाथमहं श्रये|
भूतनाथं भुजङ्गेन्द्रभूषणं विषमेक्षणम्|
वाराणसीपुराधीशं विश्वनाथमहं श्रये|
पाशाङ्कुशधरं देवमभयं वरदं करैः|
वाराणसीपुराधीशं विश्वनाथमहं श्रये|
इन्दुशोभिललाटं च कामदेवमदान्तकम्|
वाराणसीपुराधीशं विश्वनाथमहं श्रये|
पञ्चाननं गजेशानतातं मृत्युजराहरम्|
वाराणसीपुराधीशं विश्वनाथमहं श्रये|
सगुणं निर्गुणं चैव तेजोरूपं सदाशिवम्|
वाराणसीपुराधीशं विश्वनाथमहं श्रये|
हिमवत्पुत्रिकाकान्तं स्वभक्तानां मनोगतम्|
वाराणसीपुराधीशं विश्वनाथमहं श्रये|
वाराणसीपुराधीश- स्तोत्रं यस्तु नरः पठेत्|
प्राप्नोति धनमैश्वर्यं बलमारोग्यमेव च।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

88.0K

Comments

mcn83

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |