दक्षिणामूर्ति द्वादश नाम स्तोत्र

अथ दक्षिणामूर्तिद्वादशनामस्तोत्रम् -
प्रथमं दक्षिणामूर्तिर्द्वितीयं मुनिसेवितः|
ब्रह्मरूपी तृतीयं च चतुर्थं तु गुरूत्तमः|
पञ्चमं वटमूलस्थः षष्ठं वेदप्रियस्तथा|
सप्तमं तु महायोगी ह्यष्टमं त्रिजगद्गुरुः|
नवमं च विशुद्धात्मा दशमं कामितार्थदः|
एकादशं महातेजा द्वादशं मोक्षदायकः|
द्वादशैतानि नामानि सर्वलोकगुरोः कलौ|
यः पठेन्नित्यमाप्नोति नरो विद्यामनुत्तमाम्|

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

82.7K

Comments

kucpb

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |