पुन्नागवारिजातप्रभृतिसुमस्रग्विभूषितग्रीवः।
पुरगर्वमर्दनचणः पुरतो मम भवतु दक्षिणामूर्तिः।
पूजितपदाम्बुजातः पुरुषोत्तमदेवराजपद्मभवैः।
पूगप्रदः कलानां पुरतो मम भवतु दक्षिणामूर्तिः।
हालाहलोज्ज्वलगलः शैलादिप्रवरगणैर्वीतः।
कालाहङ्कृतिदलनः पुरतो मम भवतु दक्षिणामूर्तिः।
कैलासशैलानलयो लीलालेशेन निर्मिताजाण्डः।
बालाब्जकृतावतंसः पुरतो मम भवतु दक्षिणामूर्तिः।
चेलाजितकुन्ददुग्धो लोलः शैलाधिराजतनयायाम्।
फालविराजद्वह्निः पुरतो मम भवतु दक्षिणामूर्तिः।
न्यग्रोधमूलवासी न्यक्कृतचन्द्रो मुखाम्बुजातेन।
पुण्यैकलभ्यचरणः पुरतो मम भवतु दक्षिणामूर्तिः।
मन्दार आनतततेर्वृन्दारकवृन्दवन्दितपदाब्जः।
वन्दारुपूर्णकरुणः पुरतो मम भवतु दक्षिणामूर्तिः।
मुक्तामालाभूषस्त्यक्ताशप्रवरयोगिभिः सेव्यः।
भक्ताखिलेष्टदायी पुरतो मम भवतु दक्षिणामूर्तिः।
मुद्रामालामृतधटपुस्तकराजत्कराम्भोजः।
मुक्तिप्रदाननिरतः पुरतो मम भवतु दक्षिणामूर्तिः।
स्तोकार्चनपरितुष्टः शोकापहपादपङ्कजस्मरणः।
लोकावनकृतदीक्षः पुरतो मम भवतु दक्षिणामूर्तिः।
नवग्रह मंगल स्तोत्र
भास्वान् काश्यपगोत्रजोऽरुणरुचिः सिंहाधिपोऽर्कः सुरो ....
Click here to know more..शंकराचार्य द्वादश नाम स्तोत्र
वेदान्तवित् सुवेदज्ञः चतुर्दिग्विजयी तथा| आर्याम्बातन....
Click here to know more..शक्ति के लिए हनुमान मंत्र
ॐ नमो भगवते आञ्जनेयाय महाबलाय स्वाहा....
Click here to know more..