Click below to listen to Gurvashtakam
शरीरं सुरूपं तथा वा कलत्रं
यशश्चारु चित्रं धनं मेरुतुल्यम्।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम्।
कलत्रं धनं पुत्रपौत्रादिसर्वं
गृहं बान्धवाः सर्वमेतद्धि जातम्।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम्।
षडङ्गादिवेदो मुखे शास्त्रविद्या
कवित्वादिगद्यं सुपद्यं करोति।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम्।
विदेशेषु मान्यः स्वदेशेषु धन्यः
सदाचारवृत्तेषु मत्तो न चान्यः।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम्।
क्षमामण्डले भूपभूपालवृन्दैः
सदा सेवितं यस्य पादारविन्दम्।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम्।
यशो मे गतं दिक्षु दानप्रतापात्
जगद्वस्तु सर्वं करे यत्प्रसादात्।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम्।
न भोगे न योगे न वा वाजिराजौ
न कन्तामुखे नैव वित्तेषु चित्तम्।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम्।
अरण्ये न वा स्वस्य गेहे न कार्ये
न देहे मनो वर्तते मे त्वनर्घ्ये।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम्।
गुरोरष्टकं यः पठेत् पुण्यदेही
यतिर्भूपतिर्ब्रह्मचारी च गेही।
लभेद्वाञ्छितार्थं पदं ब्रह्मसंज्ञं
गुरोरुक्तवाक्ये मनो यस्य लग्नम्।
सुब्रह्मण्य पंचक स्तोत्र
सर्वार्तिघ्नं कुक्कुटकेतुं रममाणं वह्न्युद्भूतं भक्त....
Click here to know more..श्रीनिवास स्मरण स्तोत्र
प्रातः स्मरामि रमया सह वेङ्कटेशं मन्दस्मितं मुखसरोरुहक....
Click here to know more..चार प्रकार के भक्तों में अर्थार्थी भक्त के बारे में जानिये