सर्वार्तिघ्नं कुक्कुटकेतुं रममाणं
वह्न्युद्भूतं भक्तकृपालुं गुहमेकम्।
वल्लीनाथं षण्मुखमीशं शिखिवाहं
सुब्रह्मण्यं देवशरण्यं सुरमीडे।
स्वर्णाभूषं धूर्जटिपुत्रं मतिमन्तं
मार्ताण्डाभं तारकशत्रुं जनहृद्यम्।
स्वच्छस्वान्तं निष्कलरूपं रहितादिं
सुब्रह्मण्यं देवशरण्यं सुरमीडे।
गौरीपुत्रं देशिकमेकं कलिशत्रुं
सर्वात्मानं शक्तिकरं तं वरदानम्।
सेनाधीशं द्वादशनेत्रं शिवसूनुं
सुब्रह्मण्यं देवशरण्यं सुरमीडे।
मौनानन्दं वैभवदानं जगदादिं
तेजःपुञ्जं सत्यमहीध्रस्थितदेवम्।
आयुष्मन्तं रक्तपदाम्भोरुहयुग्मं
सुब्रह्मण्यं देवशरण्यं सुरमीडे।
निर्नाशं तं मोहनरूपं महनीयं
वेदाकारं यज्ञहविर्भोजनसत्त्वम्।
स्कन्दं शूरं दानवतूलानलभूतं
सुब्रह्मण्यं देवशरण्यं सुरमीडे।
वरदराज स्तोत्र
श्रीदेवराजमनिशं निगमान्तवेद्यं यज्ञेश्वरं विधिमहेन्....
Click here to know more..मिथिला मङ्गला स्तोत्र
सुधातुल्यजलैर्युक्ता यत्र सरः सरिद्वराः । तस्यै सरःसरि....
Click here to know more..अच्छे स्वास्थ्य के लिए शनि मंत्र
ॐ सूर्यपुत्राय विद्महे मृत्युरूपाय धीमहि। तन्नः सौरिः ....
Click here to know more..