देवसेनानिनं दिव्यशूलपाणिं सनातनम्|
श्रीवल्लीदेवसेनेशं षण्मुखं प्रणमाम्यहम्|
कार्तिकेयं मयूराधिरूढं कारुण्यवारिधिम्|
श्रीवल्लीदेवसेनेशं षण्मुखं प्रणमाम्यहम्|
महादेवतनूजातं पार्वतीप्रियवत्सलम्|
श्रीवल्लीदेवसेनेशं षण्मुखं प्रणमाम्यहम्|
गुहं गीर्वाणनाथं च गुणातीतं गुणेश्वरम्|
श्रीवल्लीदेवसेनेशं षण्मुखं प्रणमाम्यहम्|
षडक्षरीप्रियं शान्तं सुब्रह्मण्यं सुपूजितम्|
श्रीवल्लीदेवसेनेशं षण्मुखं प्रणमाम्यहम्|
तेजोगर्भं महासेनं महापुण्यफलप्रदम्|
श्रीवल्लीदेवसेनेशं षण्मुखं प्रणमाम्यहम्|
सुव्रतं सूर्यसङ्काशं सुरारिघ्नं सुरेश्वरम्|
श्रीवल्लीदेवसेनेशं षण्मुखं प्रणमाम्यहम्|
कुक्कुटध्वजमव्यक्तं राजवन्द्यं रणोत्सुकम्|
श्रीवल्लीदेवसेनेशं षण्मुखं प्रणमाम्यहम्|
षण्मुखस्याष्टकं पुण्यं पठद्भ्यो भक्तिदायकम्|
आयुरारोग्यमैश्वर्यं वीर्यं प्राप्नोति मानुषः|
नरसिंह नमस्कार स्तोत्र
वज्रकाय सुरश्रेष्ठ चक्राभयकर प्रभो| वरेण्य श्रीप्रद श्....
Click here to know more..लक्ष्मी अष्टोत्तर शतनामावलि
ॐ प्रकृत्यै नमः । ॐ विकृत्यै नमः । ॐ विद्यायै नमः । ॐ सर्व....
Click here to know more..ईश्वर से कुछ वादा करने से पहले सोचिये