विदिताखिलशास्त्रसुधाजलधे
महितोपनिषत्कथितार्थनिधे।
हृदये कलये विमलं चरणं
भव शङ्करदेशिक मे शरणम्।
करुणावरुणालय पालय मां
भवसागरदुःखविदूनहृदम्।
रचयाखिलदर्शनतत्त्वविदं
भव शङ्करदेशिक मे शरणम्।
भवता जनता सुहिता भविता
निजबोधविचारणचारुमते।
कलयेश्वरजीवविवेकविदं
भव शङ्करदेशिक मे शरणम्।
भव एव भवानिति मे नितरां
समजायत चेतसि कौतुकिता।
मम वारय मोहमहाजलधिं
भव शङ्करदेशिक मे शरणम्।
सुकृतेऽधिकृते बहुधा भवतो
भविता समदर्शनलालसता।
अतिदीनमिमं परिपालय मां
भव शङ्करदेशिक मे शरणम्।
जगतीमवितुं कलिताकृतयो
विचरन्ति महामहसश्छलतः।
अहिमांशुरिवात्र विभासि गुरो
भव शङ्करदेशिक मे शरणम्।
गुरुपुङ्गव पुङ्गवकेतन ते
समतामयतन्नहि कोऽपि सुधीः।
शरणागतवत्सल तत्त्वनिधे
भव शङ्करदेशिक मे शरणम्।
विदिता न मया विशदैककला
न च किञ्चन काञ्चनमस्ति गुरो ।
द्रुतमेव विधेहि कृपां सहजां
भव शङ्करदेशिक मे शरणम्।
यमुना अष्टक स्तोत्र
मुरारिकायकालिमाललामवारिधारिणी तृणीकृतत्रिविष्टपा त्....
Click here to know more..अक्षय गोपाल कवच
अपुत्रो लभते पुत्रं रोगनाशस्तथा भवेत्। सर्वतापप्रमुक्....
Click here to know more..शतभिषा नक्षत्र क्या होता है?
कुंभ राशि के चरण ३, ४, ५ और ६ शतभिषा नक्षत्र के हैं। शतभिषा ....
Click here to know more..