वेदधर्मपरप्रतिष्ठितिकारणं यतिपुङ्गवं
केरलेभ्य उपस्थितं भरतैकखण्डसमुद्धरम्।
आहिमाद्रिपरापरोक्षितवेदतत्त्वविबोधकं
संश्रये गुरुशङ्करं भुवि शङ्करं मम शङ्करम्।
श्रौतयज्ञसुलग्नमानसयज्वनां महितात्मनां
चीर्णकर्मफलाधिसन्धिनिरासनेशसमर्पणम्।
निस्तुलं परमार्थदं भवतीति बोधनदायकं
संश्रये गुरुशङ्करं भुवि शङ्करं मम शङ्करम्।
षण्मतं बहुदैवतं भवितेति भेदधिया जनाः
क्लेशमाप्य निरन्तरं कलहायमानविधिक्रमम्।
माद्रियध्वमिहास्ति दैवतमेकमित्यनुबोधदं
संश्रये गुरुशङ्करं भुवि शङ्करं मम शङ्करम्।
आदिमं पदमस्तु देवसिषेविषा परिकीर्तना-
ऽनन्तनामसुविस्तरेण बहुस्तवप्रविधायकम्।
तन्मनोज्ञपदेषु तत्त्वसुदायकं करुणाम्बुधिं
संश्रये गुरुशङ्करं भुवि शङ्करं मम शङ्करम्।
बादरायणमौनिसन्ततसूत्रभाष्यमहाकृतिं
ब्रह्म निर्द्वयमन्यदस्ति मृषेति सुस्थितिबोधदम्।
स्वीयतर्कबलेन निर्जितसर्ववादिमहापटुं
संश्रये गुरुशङ्करं भुवि शङ्करं मम शङ्करम्।
आश्रयं परमं गुरोरथ लप्स्यते स्तवनादितः
शङ्करस्य गुरोर्वचःसु निबोधमर्हति भक्तिमान्।
प्रज्ञयोत्तमभावुकं तु लभेय यत्कृपया हि तं
संश्रये गुरुशङ्करं भुवि शङ्करं मम शङ्करम्।
सप्त नदी पुण्यपद्म स्तोत्र
सुरेश्वरार्यपूजितां महानदीषु चोत्तमां द्युलोकतः समाग....
Click here to know more..तुकाराम अष्टक स्तोत्र
सतां श्रेष्ठं परात्मानमनन्यसदृशं गुरुम् । उग्रमन्तर्म....
Click here to know more..शिक्षक और छात्रों के बीच अच्छा संबंध के लिए मंत्र
सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विना....
Click here to know more..