सुरेश्वरार्यपूजितां महानदीषु चोत्तमां
द्युलोकतः समागतां गिरीशमस्तकस्थिताम्|
वधोद्यतादिकल्मषप्रणाशिनीं हितप्रदां
विकाशिकापदे स्थितां विकासदामहं भजे|
प्रदेशमुत्तरं च पूरुवंशदेशसंस्पृशां
त्रिवेणिसङ्गमिश्रितां सहस्ररश्मिनन्दिनीम्|
विचेतनप्रपापनाशकारिणीं यमानुजां
नमामि तां सुशान्तिदां कलिन्दशैलजां वराम्|
त्रिनेत्रदेवसन्निधौ सुगामिनीं सुधामयीं
महत्प्रकीर्णनाशिनीं सुशोभकर्मवर्द्धिनीम्|
पराशरात्मजस्तुतां नृसिंहधर्मदेशगां
चतुर्मुखाद्रिसम्भवां सुगोदिकामहं भजे|
विपञ्चकौलिकां शुभां सुजैमिनीयसेवितां
सु-ऋग्गृचासुवर्णितां सदा शुभप्रदायिनीम्|
वरां च वैदिकीं नदीं दृशद्वतीसमीपगां
नमामि तां सरस्वतीं पयोनिधिस्वरूपिकाम्|
महासुराष्ट्रगुर्जरप्रदेशमध्यकस्थितां
महानदीं भुविस्थितां सुदीर्घिकां सुमङ्गलाम्|
पवित्रसज्जलेन लोकपापकर्मनाशिनीं
नमामि तां सुनर्मदां सदा सुधेव सौख्यदाम्|
विजम्बुवारिमध्यगां सुमाधुरीं सुशीतलां
सुधासरित्सु देविकेति रूपितां पितृप्रियाम्|
सुपूज्यदिव्यमानसां च शल्यकर्मनाशिनीं
नमामि सिन्धुमुत्तमां सुसत्फलैर्विमण्डिताम्|
अगस्त्यकुम्भसम्भवां कवेरराजकन्यकां
सुरङ्गनाथपादपङ्कजस्पृशां नृपावनीम्|
तुलाभिमासके समस्तलोकपुण्यदायिनीं
पुरारिनन्दनप्रियां पुराणवर्णितां भजे|
पठेन्नरः सदाऽन्विमां नुतिं नदीविशेषिकाम्
अवाप्नुते बलं धनं सुपुत्रसौम्यबान्धवान्|
महानदीनिमज्जनादिपावनप्रपुण्यकं
सदा हि सद्गतिः फलं सुपाठकस्य तस्य वै।
कामाक्षी स्तुति
माये महामति जये भुवि मङ्गलाङ्गे वीरे बिलेशयगले त्रिपुर....
Click here to know more..वक्रतुंड स्तुति
सदा ब्रह्मभूतं विकारादिहीनं विकारादिभूतं महेशादिवन्द....
Click here to know more..आज्ञा करने की शक्ति के लिए मंत्र
तत्पुरुषाय विद्महे सहस्राक्षाय धीमहि तन्नः शक्रः प्रचो....
Click here to know more..