वक्रतुंड स्तुति

 

 

सदा ब्रह्मभूतं विकारादिहीनं विकारादिभूतं महेशादिवन्द्यम् ।
अपारस्वरूपं स्वसंवेद्यमेकं नमामः सदा वक्रतुण्डं भजामः ॥
अजं निर्विकल्पं कलाकालहीनं हृदिस्थं सदा साक्षिरूपं परेशम् ।
जनज्ञानकारं प्रकाशैर्विहीनं नमामः सदा वक्रतुण्डं भजामः ॥
अनन्तस्वरूपं सदानन्दकन्दं प्रकाशस्वरूपं सदा सर्वगं तम् ।
अनादिं गुणादिं गुणाधारभूतं नमामः सदा वक्रतुण्डं भजामः ॥
धरावायुतेजोमयं तोयभावं सदाकाशरूपं महाभूतसंस्थम् ।
अहङ्कारधारं तमोमात्रसंस्थं नमामः सदा वक्रतुण्डं भजामः ॥
रविप्राणविष्णुप्रचेतोयमेश- विधात्रश्विवैश्वानरेन्द्रप्रकाशम् ।
दिशां बोधकं सर्वदेवाधिरूपं नमामः सदा वक्रतुण्डं भजामः ॥
उपस्थत्वगुक्तीक्षणस्थप्रकाशं कराङ्घ्रिस्वरूपं कृतघ्राणजिह्वम् ।
गुदस्थं श्रुतिस्थं महाखप्रकाशं नमामः सदा वक्रतुण्डं भजामः ॥
रजोरूपसृष्टिप्रकाशं विधिं तं सदा पालने केशवं सत्त्वसंस्थम् ।
तमोरूपधारं हरं संहरं तं नमामः सदा वक्रतुण्डं भजामः ॥
दिशाधीशरूपं सदाशास्वरूपं ग्रहादिप्रकाशं ध्रुवादिं खगस्थम् ।
अनन्तोडुरूपं तदाकारहीनं नमामः सदा वक्रतुण्डं भजामः ॥
महत्तत्त्वरूपं प्रधानस्वरूपम् अहङ्कारधारं त्रयीबोधकारम् ।
अनाद्यन्तमायं तदाधारपुच्छं नमामः सदा वक्रतुण्डं भजामः ॥
सदा कर्मधारं फलैः स्वर्गदं तम् अकर्मप्रकाशेन मुक्तिप्रदं तम् ।
विकर्मादिना यातनाऽऽधारभूतं नमामः सदा वक्रतुण्डं भजामः ॥
अलोभस्वरूपं सदा लोभधारं जनज्ञानकारं जनाधीशपालम् ।
नृणां सिद्धिदं मानवं मानवस्थं नमामः सदा वक्रतुण्डं भजामः ।
लतावृक्षरूपं सदा पक्षिरूपं धनादिप्रकाशं सदा धान्यरूपम् ।
प्रसृत्पुत्रपौत्रादिनानास्वरूपं नमामः सदा वक्रतुण्डं भजामः ॥
खगेशस्वरूपं वृषादिप्रसंस्थं मृगेन्द्रादिबोधं मृगेन्द्रस्वरूपम् ।
धराधारहेमाद्रिमेरुस्वरूपं नमामः सदा वक्रतुण्डं भजामः ॥
सुवर्णादिधातुस्थसद्रङ्गसंस्थं समुद्रादिमेघस्वरूपं जलस्थम् ।
जले जन्तुमत्स्यादिनानाविभेदं नमामः सदा वक्रतुण्डं भजामः ॥
सदा शेषनागादिनागस्वरूपं सदा नागभूषं च लीलाकरं तैः ।
सुरारिस्वरूपं च दैत्यादिभूतं नमामः सदा वक्रतुण्डं भजामः ॥
वरं पाशधारं सदा भक्तपोषं महापौरुषं मायिनं सिंहसंस्थम् ।
चतुर्बाहुधारं सदा विघ्ननाशं नमामः सदा वक्रतुण्डं भजामः ॥
गणेशं गणेशादिवन्द्यं सुरेशं परं सर्वपूज्यं सुबोधादिगम्यम् ।
महावाक्यवेदान्तवेद्यं परेशं नमामः सदा वक्रतुण्डं भजामः ॥
अनन्तावतारैः सदा पालयन्तं स्वधर्मादिसंस्थं जनं कारयन्तम् ।
सुरैर्दैत्यपैर्वन्द्यमेकं समं त्वां नमामः सदा वक्रतुण्डं भजामः ॥
त्वया नाशितोऽयं महादैत्यभूपः सुशान्तेर्धरोऽयं कृतस्तेन विश्वम् ।
अखण्डप्रहर्षेण युक्तं च तं वै नमामः सदा वक्रतुण्डं भजामः ॥
न विन्दन्ति यं वेदवेदज्ञमर्त्या न विन्दन्ति यं शास्त्रशास्त्रज्ञभूपाः ।
न विन्दन्ति यं योगयोगीशकाद्या नमामः सदा वक्रतुण्डं भजामः ॥
न वेदा विदुर्यं च देवेन्द्रमुख्या न योगैर्मुनीन्द्रा वयं किं स्तुमश्च ।
तथाऽपि स्वबुध्या स्तुतं वक्रतुण्डं नमामः सदा वक्रतुण्डं भजामः ॥

Ramaswamy Sastry and Vighnesh Ghanapaathi

41.5K

Comments

G5nb3

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |