विघ्नेश्वरं चतुर्बाहुं देवपूज्यं परात्परम्|
गणेशं त्वां प्रपन्नोऽहं विघ्नान् मे नाशयाऽऽशु भोः|
लम्बोदरं गजेशानं विशालाक्षं सनातनम्|
एकदन्तं प्रपन्नोऽहं विघ्नान् मे नाशयाऽऽशु भोः|
आखुवाहनमव्यक्तं सर्वशास्त्रविशारदम्|
वरप्रदं प्रपन्नोऽहं विघ्नान् मे नाशयाऽऽशु भोः|
अभयं वरदं दोर्भ्यां दधानं मोदकप्रियम्|
शैलजाजं प्रपन्नोऽहं विघ्नान् मे नाशयाऽऽशु भोः|
भक्तितुष्टं जगन्नाथं ध्यातृमोक्षप्रदं द्विपम्|
शिवसूनुं प्रपन्नोऽहं विघ्नान् मे नाशयाऽऽशु भोः|
संसाराब्धितरिं देवं करिरूपं गणाग्रगम्|
स्कन्दाग्रजं प्रपन्नोऽहं विघ्नान् मे नाशयाऽऽशु भोः|
कारुण्यामृतजीमूतं सुरासुरनमस्कृतम्|
शूलहस्तं प्रपन्नोऽहं विघ्नान् मे नाशयाऽऽशु भोः|
परेश्वरं महाकायं महाभारतलेखकम्|
वेदवेद्यं प्रपन्नोऽहं विघ्नान् मे नाशयाऽऽशु भोः|
विघ्नेशाष्टकमेतद्यः सर्वविघ्नौघनाशनम्|
पठेत् प्रतिदिनं प्रातस्तस्य निर्विघ्नता भवेत्|
मोरेश्वर स्तोत्र
पुराणपुरुषं देवं नानाक्रीडाकरं मुदा। मायाविनं दुर्विभ....
Click here to know more..केतु कवच
ॐ अस्य श्रीकेतुकवचस्तोत्रमहामन्त्रस्य। त्र्यम्बक-ॠषि....
Click here to know more..कृतिका नक्षत्र
कृत्तिका नक्षत्र - व्यक्तित्व और विशेषताएं, स्वास्थ्य, व....
Click here to know more..