गंगा स्तोत्र

 

 

देवि सुरेश्वरि भगवति गङ्गे
त्रिभुवनतारिणि तरलतरङ्गे।
शङ्करमौलिनिवासिनि विमले
मम मतिरास्तां तव पदकमले।
भागीरथिसुखदायिनि मातः
तव जलमहिमा निगमे ख्यातः।
नाहं जाने तव महिमानं
त्राहि कृपामयि मामज्ञानम्।
हरिपदपाद्यतरङ्गिणि गङ्गे
हिमविधुमुक्ताधवलतरङ्गे।
दूरीकुरु मम दुष्कृतिभारं
कुरु कृपया भवसागरपारम्।
तव जलममलं येन निपीतं
परमपदं खलु तेन गृहीतम्।
मातर्गङ्गे त्वयि यो भक्तः
किल तं द्रष्टुं न यमः शक्तः।
पतितोद्धारिणि जाह्नवि गङ्गे
खण्डितगिरिवरमण्डितभङ्गे।
भीष्मजननि हे मुनिवरकन्ये
पतितनिवारिणि त्रिभुवनधन्ये।
कल्पलतामिव फलदां लोके
प्रणमति यस्त्वां न पतति शोके।
पारावारविहारिणि गङ्गे
विबुधवधूकृततरलापाङ्गे।
तव चेन्मातः स्रोतस्नातः
पुनरपि जठरे सोऽपि न जातः।
नरकनिवारिणि जाह्नवि गङ्गे
कलुषविनाशिनि महिमोत्तुङ्गे।
परिलसदङ्गे पुण्यतरङ्गे
जय जय जाह्नवि करुणापाङ्गे।
इन्द्रमुकुटमणिराजितचरणे
सुखदे शुभदे सेवकचरणे।
रोगं शोकं पापं तापं
हर मे भगवति कुमतिकलापम्।
त्रिभुवनसारे वसुधाहारे
त्वमसि गतिर्मम खलु संसारे।
अलकानन्दे परमानन्दे
कुरु करुणामयि कातरवन्द्ये।
तव तटनिकटे यस्य हि वासः
खलु वैकुण्ठे तस्य निवासः।
वरमिह नीरे कमठो मीनः
किं वा तीरे सरटः क्षीणः।
अथवा गव्यूतौ श्वपचो दीन-
स्तव न हि दूरे नृपतिकुलीनः।
भो भुवनेश्वरि पुण्ये धन्ये
देवि द्रवमयि मुनिवरकन्ये।
गङ्गास्तवमिमममलं नित्यं
पठति नरो यः स जयति सत्यम्।
येषां हृदये गङ्गा भक्ति-
स्तेषां भवति सदा सुखमुक्तिः।
मधुरमनोहरपञ्झटिकाभिः
परमानन्दकलितललिताभिः।
गङ्गास्तोत्रमिदं भवसारं
वाञ्छितफलदं विदितमुदारं।
शङ्करसेवकशङ्कररचितं
पठति च विषयीदमिति समाप्तम्।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

30.9K
1.1K

Comments

v2c6a

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |