मीनाक्षी स्तुति

शरशरासन- पाशलसत्करा-
मरुणवर्णतनुं पररूपिणीम्।
विजयदां परमां मनुजाः सदा
भजत मीनसमानसुलोचनाम्।
अभिनवेन्दु- शिरस्कृतभूषणा-
मुदितभास्कर- तुल्यविचित्रिताम्।
जननिमुख्यतरां मनुजाः सदा
भजत मीनसमानसुलोचनाम्।
अगणितां पुरुषेषु परोत्तमां
प्रणतसज्जन- रक्षणतत्पराम्।
गुणवतीमगुणां मनुजाः सदा
भजत मीनसमानसुलोचनाम्।
विमलगान्धित- चारुसरोजगा-
मगतवाङ्मय- मानसगोचराम्।
अमितसूर्यरुचिं मनुजाः सदा
भजत मीनसमानसुलोचनाम्।
परमधामभवां च चतुष्करां
सुरमसुन्दर- शङ्करसंयुताम्।
अतुलितां वरदां मनुजाः सदा
भजत मीनसमानसुलोचनाम्।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

29.9K

Comments

xahev

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |