अस्य श्री शाकम्भरी-अष्टोत्तरशतनामावलिमहामन्त्रस्य ब्रह्मा
ऋषिः, अनुष्टुप्छन्दः । शाकम्भरी देवता । सौः बीजम् । क्लीं शक्तिः ।
ह्रीं कीलकम् । श्रीशाकम्भरीप्रसादसिद्धयर्थे
पारायणे विनियोगः ।
शान्ता शारदचन्द्रसुन्दरमुखी शाल्यन्नभोज्यप्रिया
शाकैः पालितविष्टपा शतदृशा शाकोल्लसद्विग्रहा ।
श्यामाङ्गी शरणागतार्तिशमनी शक्रादिभिः शंसिता
शङ्कर्यष्टफलप्रदा भगवती शाकम्भरी पातु माम् ॥
ॐ शाकम्भर्यै नमः । महालक्ष्म्यै । महाकाल्यै । महाकान्त्यै ।
महासरस्वत्यै । महागौर्यै । महादेव्यै । भक्तानुग्रहकारिण्यै ।
स्वप्रकाशात्मरूपिण्यै । महामायायै । माहेश्वर्यै । वागीश्वर्यै ।
जगद्धात्र्यै । कालरात्र्यै । त्रिलोकेश्वर्यै । भद्रकाल्यै । कराल्यै ।
पार्वत्यै । त्रिलोचनायै । सिद्धलक्ष्म्यै नमः ॥ २०
ॐ क्रियालक्ष्म्यै नमः । मोक्षप्रदायिन्यै । अरूपायै ।
बहुरूपायै । स्वरूपायै । विरूपायै । पञ्चभूतात्मिकायै । देव्यै ।
देवमूर्त्यै । सुरेश्वर्यै । दारिद्र्यध्वंसिन्यै । वीणापुस्तकधारिण्यै ।
सर्वशक्त्यै । त्रिशक्त्र्यै । ब्रह्मविष्णुशिवात्मिकायै । अष्टाङ्गयोगिन्यै ।
हंसगामिन्यै । नवदुर्गायै । अष्टभैरवायै । गङ्गायै नमः ॥ ४०
ॐ वेण्यै नमः । सर्वशस्त्रधारिण्यै । समुद्रवसनायै ।
ब्रह्माण्डमेखलायै । अवस्थात्रयनिर्मुक्तायै । गुणत्रयविवर्जितायै ।
योगध्यानैकसंन्यस्तायै । योगध्यानैकरूपिण्यै । वेदत्रयरूपिण्यै ।
वेदान्तज्ञानरूपिण्यै । पद्मावत्यै । विशालाक्ष्यै । नागयज्ञोपवीतिन्यै ।
सूर्यचन्द्रस्वरूपिण्यै । ग्रहनक्षत्ररूपिण्यै । वेदिकायै । वेदरूपिण्यै ।
हिरण्यगर्भायै । कैवल्यपददायिन्यै । सूर्यमण्डलसंस्थितायै नमः ॥ ६०
ॐ सोममण्डलमध्यस्थायै नमः । वायुमण्डलसंस्थितायै ।
वह्निमण्डलमध्यस्थायै । शक्तिमण्डलसंस्थितायै । चित्रिकायै ।
चक्रमार्गप्रदायिन्यै । सर्वसिद्धान्तमार्गस्थायै । षड्वर्गवर्णवर्जितायै ।
एकाक्षरप्रणवयुक्तायै । प्रत्यक्षमातृकायै । दुर्गायै । कलाविद्यायै ।
चित्रसेनायै । चिरन्तनायै । शब्दब्रह्मात्मिकायै । अनन्तायै । ब्राह्म्यै ।
ब्रह्मसनातनायै । चिन्तामण्यै । उषादेव्यै नमः ॥ ८०
ॐ विद्यामूर्तिसरस्वत्यै नमः । त्रैलोक्यमोहिन्यै । विद्यादायै ।
सर्वाद्यायै । सर्वरक्षाकर्त्र्यै । ब्रह्मस्थापितरूपायै ।
कैवल्यज्ञानगोचरायै । करुणाकारिण्यै । वारुण्यै । धात्र्यै ।
मधुकैटभमर्दिन्यै । अचिन्त्यलक्षणायै । गोप्त्र्यै ।
सदाभक्ताघनाशिन्यै । परमेश्वर्यै । महारवायै । महाशान्त्यै ।
सिद्धलक्ष्म्यै । सद्योजात-वामदेवाघोरतत्पुरुषेशानरूपिण्यै ।
नगेशतनयायै नमः ॥ १००
ॐ सुमङ्गल्यै नमः । योगिन्यै । योगदायिन्यै । सर्वदेवादिवन्दितायै ।
विष्णुमोहिन्यै । शिवमोहिन्यै । ब्रह्ममोहिन्यै । श्रीवनशङ्कर्यै नमः ॥ १०८
गजवदन अष्टक स्तोत्रं
गजवदन गणेश त्वं विभो विश्वमूर्ते हरसि सकलविघ्नान् विघ्....
Click here to know more..किं ज्योतिस्तव एक श्लोकी
किं ज्योतिस्तवभानुमानहनि मे रात्रौ प्रदीपादिकं स्यादे....
Click here to know more..रेस्तरां व्यवसाय में सफलता का मंत्र
अन्नरूप रसरूप तुष्टिरूप नमो नमः । अन्नाधिपतये ममाऽन्नं ....
Click here to know more..