कारुण्यं शरणार्थिषु प्रजनयन् काव्यादिपुष्पार्चितो
वेदान्तेडिविग्रहो विजयदो भूम्यैकशृङ्गोद्धरः।
नेत्रोन्मीलित- सर्वलोकजनकश्चित्ते नितान्तं स्थितः
कल्याणं विदधातु लोकभगवान् कामप्रदः श्रीधरः।
साङ्गाम्नायसुपारगो विभुरजः पीताम्बरः सुन्दरः
कंसारातिरधोक्षजः कमलदृग्गोपालकृष्णो वरः।
मेधावी कमलव्रतः सुरवरः सत्यार्थविश्वंभरः
कल्याणं विदधातु लोकभगवान् कामप्रदः श्रीधरः।
हंसारूढजगत्पतिः सुरनिधिः स्वर्णाङ्गभूषोज्जवलः
सिद्धो भक्तपरायणो द्विजवपुर्गोसञ्चयैरावृतः।
रामो दाशरथिर्दयाकरघनो गोपीमनःपूरितो
कल्याणं विदधातु लोकभगवान् कामप्रदः श्रीधरः।
हस्तीन्द्रक्षयमोक्षदो जलधिजाक्रान्तः प्रतापान्वितः
कृष्णाश्चञ्चल- लोचनोऽभयवरो गोवर्द्धनोद्धारकः।
नानावर्ण- समुज्ज्वलद्बहुसुमैः पादार्चितो दैत्यहा
कल्याणं विदधातु लोकभगवान् कामप्रदः श्रीधरः।
भावित्रासहरो जलौघशयनो राधापतिः सात्त्विको
धन्यो धीरपरो जगत्करनुतो वेणुप्रियो गोपतिः।
पुण्यार्चिः सुभगः पुराणपुरुषः श्रेष्ठो वशी केशवः
कल्याणं विदधातु लोकभगवान् कामप्रदः श्रीधरः।
दक्षिणामूर्ति स्तव
उपासकानां यदुपासनीय- मुपात्तवासं वटशाखिमूले। तद्धाम दा....
Click here to know more..विष्णु अष्टोत्तर शतनाम स्तोत्र
सशङ्खचक्रं सकिरीटकुण्डलं सपीतवस्त्रं सरसीरुहेक्षणम्।....
Click here to know more..सनातन परंपरा यही है कि पहले देवियों का नाम लेकर बाद में देवों का नाम लेते हैं