नारायणं सहस्राक्षं पद्मनाभं पुरातनम्।
हृषीकेशं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति।
गोविन्दं पुण्डरीकाक्षमनन्तमजमव्ययम्।
केशवं च प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति।
वासुदेवं जगद्योनिं भानुवर्णमतीन्द्रियम्।
दामोदरं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति।
शङ्खचक्रधरं देवं छत्ररूपिणमव्ययम्।
अधोक्षजं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति।
वाराहं वामनं विष्णुं नरसिंहं जनार्दनम्।
माधवं च प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति।
पुरुषं पुष्करं पुण्यं क्षेमबीजं जगत्पतिम्।
लोकनाथं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति।
भूतात्मानं महात्मानं जगद्योनिमयोनिजम्।
विश्वरूपं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति।
सहस्रशिरसं देवं व्यक्ताव्यक्तं सनातनम्।
महायोगं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति।
महालक्ष्मी सुप्रभात स्तोत्र
ओं श्रीलक्ष्मि श्रीमहालक्ष्मि क्षीरसागरकन्यके उत्तिष....
Click here to know more..हरिप्रिया स्तोत्र
त्रिलोकजननीं देवीं सुरार्चितपदद्वयाम्| मातरं सर्वजन्त....
Click here to know more..पुरुषोत्तम मास
पुरुषोत्तम मास का महत्त्व, विधि और फल के बारे में विस्तृत ....
Click here to know more..