रविसोमनेत्रमघनाशनं विभुं
मुनिबुद्धिगम्य- महनीयदेहिनम्।
कमलाधिशायि- रमणीयवक्षसं
सततं नतोऽस्मि हरिमेकमव्ययम्।
धृतशङ्खचक्रनलिनं गदाधरं
धवलाशुकीर्तिमतिदं महौजसम्।
सुरजीवनाथ- मखिलाभयप्रदं
सततं नतोऽस्मि हरिमेकमव्ययम्।
गुणगम्यमुग्रमपरं स्वयंभुवं
समकामलोभ- मददुर्गुणान्तकम्।
कलिकालरक्षण- निमित्तिकारणं
सततं नतोऽस्मि हरिमेकमव्ययम्।
झषकूर्मसिंह- किरिकायधारिणं
कमलासुरम्य- नयनोत्सवं प्रभुम्।
अतिनीलकेश- गगनाप्तविग्रहं
सततं नतोऽस्मि हरिमेकमव्ययम्।
भवसिन्धुमोक्षदमजं त्रिविक्रमं
श्रितमानुषार्तिहरणं रघूत्तमम्।
सुरमुख्यचित्तनिलयं सनातनं
सततं नतोऽस्मि हरिमेकमव्ययम्।
गणेश महिम्न स्तोत्र
गणेशदेवस्यं महात्म्यमेतद् यः श्रावयेद्वाऽपि पठेच्च तस....
Click here to know more..श्री लक्ष्मी मंगलाष्टक स्तोत्र
वरलक्ष्मि धैर्यलक्ष्मि श्रीषोडशभाग्यङ्करि। मङ्गलं श्....
Click here to know more..भगवान शिव की कृपा के लिए मंत्र
नमोऽस्तु स्थाणुभूताय ज्योतिर्लिङ्गावृतात्मने । चतुर्....
Click here to know more..