नीलं शरीरकर- धारितशङ्खचक्रं
रक्ताम्बरंद्विनयनं सुरसौम्यमाद्यम्।
पुण्यामृतार्णववहं परमं पवित्रं
मत्स्यावतारममरेन्द्र- पतेर्भजेऽहम्।
आश्चर्यदं गरुडवाहनमादिकूर्मं
भक्तस्तुतं सुखभवं मुदिताशयेशम्।
वार्युद्भवं जलशयं च जनार्दनं तं
कूर्मावतारममरेन्द्र- पतेर्भजेऽहम्।
ब्रह्माण्डकर्तृक-मरूपमनादिभूतं
कारुण्यपूर्णमजरं शुभदायकं कम्।
सर्वंसहासुपरि- रक्षकमुत्तमाङ्गं
वन्दे वराहमपराजित- मादिमूर्तिम्।
सच्चिन्मयं बलवतां बलिनं वरेण्यं
भक्तार्तिनाशनपरं भुवनेशमुग्रम्।
अक्षोभ्यमन्नद- मनेककलाप्रवीणं
वन्दे नृसिंहदनुज- प्रकृतोन्मथं तम्।
ध्येयं परं मुनिजनप्रणुतं प्रियेशं
योगीश्वरं जितरिपुं कलिकल्मषघ्नम्।
वैकुण्ठगं च समशक्तिसमन्वितं तं
वामाकृतिं बलिनिबर्हणमर्चयेऽहम्।
शौर्यप्रदं च रणवीरमणुस्थितं तं
वर्चस्विनं मनुजसौख्यकरं प्रसन्नम्।
देवं यतीश्वरमतीव दयाप्रपूर्णं
वन्दे सशस्त्रमजरं परशुप्रहस्तम्।
शास्तारमुत्तममूद्भव- वंशरत्नं
सीतेशमच्युतमनन्त- मपारधीरम्।
उर्वीपतिं वरदमादिसुरैर्नुतं तं
वन्दे दशास्यदहनं नयनाभिरामम्।
सङ्कर्षणं च बलदेवमनेकरूपं
नीलाम्बरं जयवराभयसीरपाणिम्।
तालाङ्गमादिमहितं हलिनं सुरेशं
वन्दे हलायुधमजं बलभद्रमीशम्।
मालामणिप्रखर- शोभितमेकमग्र्यं
गोपालकं सकलकामफलप्रदं तम्।
पीताम्बरं वधितकंसमशेषकीर्तिं
दामोदरं गरुडधोरणमर्चयेऽहम्।
संसारदुःखदहनं सबलं सुरांशं
पुण्यात्मभिः कृतविवेकमपाररूपम्।
पापाकृतिप्रमथनं परमेशमाद्य-
मश्वाननं कलिजकल्किनमर्चयेऽहम्।
दशावतारोत्तमस्तोत्ररत्नं
पठेन्मुदा हि भक्तिमानाप्तकीर्तिः।
भवेत् सदा भुवि स्थितो मोक्षकामो
लभेत चोत्तमां गतिं साधुचेताः।
हनुमत् स्तव
कन्दर्पकोटिलावण्यं सर्वविद्याविशारदम्। उद्यदादित्यस....
Click here to know more..चंद्र ग्रहण दोष निवारण स्तोत्र
योऽसौ वज्रधरो देव आदित्यानां प्रभुर्मतः। सहस्रनयनश्चन....
Click here to know more..अच्छे स्वास्थ्य के लिए शनि मंत्र
ॐ सूर्यपुत्राय विद्महे मृत्युरूपाय धीमहि। तन्नः सौरिः ....
Click here to know more..