प्रलयोदन्वदुदीर्णजल- विहारानिविशाङ्गम्।
कमलाकान्तमण्डित- विभवाब्धिं हरिमीडे।
चरमाङ्गोर्द्धतमन्दरतटिनं कूर्मशरीरम्।
कमलाकान्तमण्डित- विभवाब्धिं हरिमीडे।
सितदंष्ट्रोद्धृत- काश्यपतनयं सूकररूपम्।
कमलाकान्तमण्डित- विभवाब्धिं हरिमीडे।
निशितप्राग्रनखेन जितसुरारिं नरसिंहम्।
कमलाकान्तमण्डित- विभवाब्धिं हरिमीडे।
त्रिपदव्याप्तचतुर्दशभुवनं वामनरूपम्।
कमलाकान्तमण्डित- विभवाब्धिं हरिमीडे।
क्षपितक्षत्रियवंशनगधरं भार्गवरामम्।
कमलाकान्तमण्डित- विभवाब्धिं हरिमीडे।
दयिताचोरनिबर्हणनिपुणं राघवरामम्।
कमलाकान्तमण्डित- विभवाब्धिं हरिमीडे।
मुरलीनिस्वनमोहितवनितं यादवकृष्णम्।
कमलाकान्तमण्डित-विभवाब्धिं हरिमीडे।
पटुचाटिकृतनिस्फुटजननं श्रीघनसंज्ञम्।
कमलाकान्तमण्डित- विभवाब्धिं हरिमीडे।
परिनिर्मूलितदुष्टजनकुलं विष्णुयशोजम्।
कमलाकान्तमण्डित- विभवाब्धिं हरिमीडे।
अकृतेमां विजयध्वजवरतीर्थो हरिगाथाम्।
अयते प्रीतिमलं सपदि यया श्रीरमणोयम्।
दयाकर सरस्वती स्तोत्र
अरविन्दगन्धिवदनां श्रुतिप्रियां सकलागमांशकरपुस्तकान....
Click here to know more..शरवनभव स्तोत्र
शक्तिस्वरूपाय शरोद्भवाय शक्रार्चितायाथ शचीस्तुताय। श....
Click here to know more..ज्ञानेन हीनाः पशुभिः समानाः
भोजन करना, सोना, डरना और संतान पैदा करना - ये सब मनुष्य भी क....
Click here to know more..