शेषाद्रि नाथ स्तोत्र

 

Sheshadri Natha Stotram

 

अरिन्दमः पङ्कजनाभ उत्तमो
जयप्रदः श्रीनिरतो महामनाः।
नारायणो मन्त्रमहार्णवस्थितः
शेषाद्रिनाथः कुरुतां कृपां मयि।
मायास्वरूपो मणिमुख्यभूषितः
सृष्टिस्थितः क्षेमकरः कृपाकरः।
शुद्धः सदा सत्त्वगुणेन पूरितः
शेषाद्रिनाथः कुरुतां कृपां मयि।
प्रद्युम्नरूपः प्रभुरव्ययेश्वरः
सुविक्रमः श्रेष्ठमतिः सुरप्रियः।
दैत्यान्तको दुष्टनृपप्रमर्दनः
शेषाद्रिनाथः कुरुतां कृपां मयि।
सुदर्शनश्चक्रगदाभुजः परः
पीताम्बरः पीनमहाभुजान्तरः।
महाहनुर्मर्त्यनितान्तरक्षकः
शेषाद्रिनाथः कुरुतां कृपां मयि।
ब्रह्मार्चितः पुण्यपदो विचक्षणः
स्तम्भोद्भवः श्रीपतिरच्युतो हरिः।
चन्द्रार्कनेत्रो गुणवान्विभूतिमान्
शेषाद्रिनाथः कुरुतां कृपां मयि।
जपेज्जनः पञ्चकवर्णमुत्तमं
नित्यं हि भक्त्या सहितस्य तस्य हि।
शेषाद्रिनाथस्य कृपानिधेः सदा
कृपाकटाक्षात् परमा गतिर्भवेत्।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

29.5K
1.0K

Comments

kv65f

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |