नव दुर्गा स्तव

सर्वोत्तुङ्गां सर्वविप्रप्रवन्द्यां
शैवां मेनाकन्यकाङ्गीं शिवाङ्गीम्।
कैलासस्थां ध्यानसाध्यां पराम्बां
शुभ्रां देवीं शैलपुत्रीं नमामि।
कौमारीं तां कोटिसूर्यप्रकाशां
तापावृत्तां देवदेवीमपर्णाम्।
वेदज्ञेयां वाद्यगीतप्रियां तां
ब्रह्मोद्गीथां ब्रह्मरूपां नमामि।
वृत्ताक्षीं तां वासरारम्भखर्व-
सूर्यातापां शौर्यशक्त्यैकदात्रीम्।
देवीं नम्यां नन्दिनीं नादरूपां
व्याघ्रासीनां चन्द्रघण्टां नमामि।
हृद्यां स्निग्धां शुद्धसत्त्वान्तरालां
सर्वां देवीं सिद्धिबुद्धिप्रदात्रीम्।
आर्यामम्बां सर्वमाङ्गल्ययुक्तां
कूष्माण्डां तां कामबीजां नमामि।
दिव्येशानीं सर्वदेवैरतुल्यां
सुब्रह्मण्यां सर्वसिद्धिप्रदात्रीम्।
सिंहासीनां मातरं स्कन्दसंज्ञां
धन्यां पुण्यां सर्वदा तां नमामि।
कालीं दोर्भ्यां खड्गचक्रे दधानां
शुद्धामम्बां भक्तकष्टादिनाशाम्।
सत्त्वां सर्वालङ्कृताशेषभूषां
देवीं दुर्गां कातवंशां नमामि।
रुद्रां तीक्ष्णां राजराजैर्विवन्द्यां
कालाकालां सर्वदुष्टप्रनाशाम्।
क्रूरां तुण्डां मुण्डमाल्याम्बरां तां
चण्डां घोरां कालरात्रिं नमामि।
शूलीकान्तां पारमार्थप्रदां तां
पुण्यापुण्यां पापनाशां परेशाम्।
कामेशानीं कामदानप्रवीणां
गौरीमम्बां गौरवर्णां नमामि।
निश्चाञ्चल्यां रक्तनालीकसंस्थां
हेमाभूषां दीनदैन्यादिनाशाम्।
साधुस्तुत्यां सर्ववेदैर्विवन्द्यां
सिद्धैर्वन्द्यां सिद्धिदात्रीं नमामि।
दुर्गास्तोत्रं सन्ततं यः पठेत् सः
प्राप्नोति स्वं प्रातरुत्थाय नित्यम्।
धैर्यं पुण्यं स्वर्गसंवासभाग्यं
दिव्यां बुद्धिं सौख्यमर्थं दयां च।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

12.8K

Comments

5aey3

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |