वन्दे निर्बाधकरुणामरुणां शरणावनीम्।
कामपूर्णजकाराद्य- श्रीपीठान्तर्निवासिनीम्।
प्रसिद्धां परमेशानीं नानातनुषु जाग्रतीम्।
अद्वयानन्दसन्दोह- मालिनीं श्रेयसे श्रये।
जाग्रत्स्वप्नसुषुप्त्यादौ प्रतिव्यक्ति विलक्षणाम्।
सेवे सैरिभसम्मर्दरक्षणेषु कृतक्षणाम्।
तत्तत्कालसमुद्भूत- रामकृष्णादिसेविताम्।
एकधा दशधा क्वापि बहुधा शक्तिमाश्रये।
स्तवीमि परमेशानीं महेश्वरकुटुम्बिनीम्।
सुदक्षिणामन्नपूर्णां लम्बोदरपयस्विनीम्।
मेधासाम्राज्यदीक्षादि- वीक्षारोहस्वरूपिकाम्।
तामालम्बे शिवालम्बां प्रसादरूपिकाम्।
अवामा वामभागेषु दक्षिणेष्वपि दक्षिणा।
अद्वयापि द्वयाकारा हृदयाम्भोजगावतात्।
मन्त्रभावनया दीप्तामवर्णां वर्णरूपिणीम्।
परां कन्दलिकां ध्यायन् प्रसादमधिगच्छति।
नवग्रह मंगल स्तोत्र
भास्वान् काश्यपगोत्रजोऽरुणरुचिः सिंहाधिपोऽर्कः सुरो ....
Click here to know more..हनुमान द्वादश नाम स्तोत्र
हनुमानञ्जनासूनुर्वायुपुत्रो महाबलः| रामेष्टः फल्गुणस....
Click here to know more..सुदर्शन शशिकला के स्वयंवर के लिये निकलता है