स्मितास्यां सुरां शुद्धविद्याङ्कुराख्यां
मनोरूपिणीं देवकार्योत्सुकां ताम्।
सुसिंहस्थितां चण्डमुण्डप्रहारां
नमाम्यम्बिकामम्बु- जातेक्षणां ताम्।
सुमेरुस्थितां सर्वभूषाविभूषां
जगन्नायिकां रक्तवस्त्रान्विताङ्गाम्।
तमोभञ्जिनीं मीनसादृश्यनेत्रां
नमाम्यम्बिकामम्बु- जातेक्षणां ताम्।
शिवाङ्गीं भवानीं ज्वलद्रक्तजिह्वां
महापापनाशां जनानन्ददात्रीम्।
लसद्रत्नमालां धरन्तीं धराद्यां
नमाम्यम्बिकामम्बु- जातेक्षणां ताम्।
सदा मङ्गलां सर्वधर्स्वरूपां
सुमाहेश्वरीं सर्वजीवच्छरण्याम्।
तडित्सोज्ज्वलां सर्वदेवैः प्रणम्यां
नमाम्यम्बिकामम्बु- जातेक्षणां ताम्।
सहस्राब्जरूढां कुलान्तःस्थितैकां
सुधागर्भिणीं मूलमन्त्रात्मरूपाम्।
सुराह्लादिनीं शूरनन्द्यां धरित्रीं
नमाम्यम्बिकामम्बु- जातेक्षणां ताम्।
नव दुर्गा स्तव
सर्वोत्तुङ्गां सर्वविप्रप्रवन्द्यां शैवां मेनाकन्यका....
Click here to know more..वेंकटेश भुजंग स्तोत्र
सदाभीतिहस्तं मुदाजानुपाणिं लसन्मेखलं रत्नशोभाप्रकाशम....
Click here to know more..गणेश जी के २६ मंत्र
महागणपति मंत्र - लोगों को अनुकूल करने के लिए - ॐ श्रीँ ह्री....
Click here to know more..