दुर्गा कवच

श्रीनारद उवाच।
भगवन् सर्वधर्मज्ञ सर्वज्ञानविशारद।
ब्रह्माण्डमोहनं नाम प्रकृते कवचं वद।
श्रीनारायण उवाच।
श‍ृणु वक्ष्यामि हे वत्स कवचं च सुदुर्लभम्।
श्रीकृष्णेनैव कथितं कृपया ब्रह्मणे पुरा।
ब्रह्मणा कथितं पूर्वं धर्माय जाह्नवीतटे।
धर्मेण दत्तं मह्यं च कृपया पुष्करे पुरा।
त्रिपुरारिश्च यद्धृत्वा जघान त्रिपुरं पुरा।
मुमोच ब्रह्मा यद्धृत्वा मधुकैटभयोर्भयात्।
सञ्जहार रक्तबीजं यद्धृत्वा भद्रकालिका।
यद्धृत्वा हि महेन्द्रश्च सम्प्राप कमलालयाम्।
यद्धृत्वा च महायोद्धा बाणः शत्रुभयङ्करः।
यद्धृत्वा शिवतुल्यश्च दुर्वासा ज्ञानिनां वरः।
ॐ दुर्गेति चतुर्थ्यन्तः स्वाहान्तो मे शिरोऽवतु।
मन्त्रः षडक्षरोऽयं च भक्तानां कल्पपादपः।
विचारो नास्ति वेदे च ग्रहणेऽस्य मनोर्मुने।
मन्त्रग्रहणमात्रेण विष्णुतुल्यो भवेन्नरः।
मम वक्त्रं सदा पातु ॐ दुर्गायै नमोऽन्तकः।
ॐ दुर्गे इति कण्ठं तु मन्त्रः पातु सदा मम।
ॐ ह्रीं श्रीमिति मन्त्रोऽयं स्कन्धं पातु निरन्तरम्।
ह्रीं श्रीं क्लीमिति पृष्ठं च पातु मे सर्वतः सदा।
ह्रीं मे वक्षस्थले पातु हं सं श्रीमिति सन्ततम्।
ऐं श्रीं ह्रीं पातु सर्वाङ्गं स्वप्ने जागरणे सदा।
प्राच्यां मां पातु प्रकृतिः पातु वह्नौ च चण्डिका।
दक्षिणे भद्रकाली च नैर्ऋत्यां च महेश्वरी।
वारुण्यां पातु वाराही वायव्यां सर्वमङ्गला ।
उत्तरे वैष्णवी पातु तथैशान्यां शिवप्रिया।
जले स्थले चान्तरिक्षे पातु मां जगदम्बिका।
इति ते कथितं वत्स कवचं च सुदुर्लभम्।
यस्मै कस्मै न दातव्यं प्रवक्तव्यं न कस्यचित्।
गुरुमभ्यर्च्य विधिवद् वस्त्रालङ्कारचन्दनैः।
कवचं धारयेद्यस्तु सोऽपि विष्णुर्न संशयः।
स्नाने च सर्वतीर्थानां पृथिव्याश्च प्रदक्षिणे।
यत्फलं लभते लोकस्तदेतद्धारणे मुने।
पञ्चलक्षजपेनैव सिद्धमेतद्भवेद्ध्रुवम्।
लोके च सिद्धकवचो नावसीदति सङ्कटे।
न तस्य मृत्युर्भवति जले वह्नौ विषे ज्वरे।
जीवन्मुक्तो भवेत्सोऽपि सर्वसिद्धीश्वरीश्वरि।
यदि स्यात्सिद्धकवचो विष्णुतुल्यो भवेद्ध्रुवम्।

Ramaswamy Sastry and Vighnesh Ghanapaathi

38.6K

Comments

s4zhi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |