सर्वदेवाश्रयां सिद्धामिष्टसिद्धिप्रदां सुराम्|
निशुम्भसूदनीं वन्दे चोलराजकुलेश्वरीम्|
रत्नहारकिरीटादिभूषणां कमलेक्षणाम्|
निशुम्भसूदनीं वन्दे चोलराजकुलेश्वरीम्|
चेतस्त्रिकोणनिलयां श्रीचक्राङ्कितरूपिणीम्|
निशुम्भसूदनीं वन्दे चोलराजकुलेश्वरीम्|
योगानन्दां यशोदात्रीं योगिनीगणसंस्तुताम्|
निशुम्भसूदनीं वन्दे चोलराजकुलेश्वरीम्|
जगदम्बां जनानन्ददायिनीं विजयप्रदाम्|
निशुम्भसूदनीं वन्दे चोलराजकुलेश्वरीम्|
सिद्धादिभिः समुत्सेव्यां सिद्धिदां स्थिरयोगिनीम्|
निशुम्भसूदनीं वन्दे चोलराजकुलेश्वरीम्|
मोक्षप्रदात्रीं मन्त्राङ्गीं महापातकनाशिनीम्|
निशुम्भसूदनीं वन्दे चोलराजकुलेश्वरीम्|
मत्तमातङ्गसंस्थां च चण्डमुण्डप्रमर्द्दिनीम्|
निशुम्भसूदनीं वन्दे चोलराजकुलेश्वरीम्|
वेदमन्त्रैः सुसंपूज्यां विद्याज्ञानप्रदां वराम्|
निशुम्भसूदनीं वन्दे चोलराजकुलेश्वरीम्|
महादेवीं महाविद्यां महामायां महेश्वरीम्|
निशुम्भसूदनीं वन्दे चोलराजकुलेश्वरीम्|
राजराजेश्वरी स्तोत्र
या त्रैलोक्यकुटुम्बिका वरसुधाधाराभि- सन्तर्पिणी भूम्य....
Click here to know more..हरिपदाष्टक स्तोत्र
भुजगतल्पगतं घनसुन्दरं गरुडवाहनमम्बुजलोचनम्। नलिनचक्र....
Click here to know more..शिव पुराण सुनकर चञ्चुला का मन परिवर्तन होता है