ग्रहाणामादिरादित्यो लोकरक्षणकारकः।
विषणस्थानसंभूतां पीडां हरतु मे रविः।
रोहिणीशः सुधामूर्तिः सुधागात्रः सुधाशनः।
विषणस्थानसंभूतां पीडां हरतु मे विधुः।
भूमिपुत्रो महातेजा जगतां भयकृत् सदा।
वृष्टिकृद्धृष्टिहर्ता च पीडां हरतु मे कुजः।
उत्पातरूपो जगतां चन्द्रपुत्रो महाद्युतिः।
सूर्यप्रियकरो विद्वान् पीडां हरतु मे बुधः।
देवमन्त्री विशालाक्षः सदा लोकहिते रतः।
अनेकशिष्यसम्पूर्णः पीडां हरतु मे गुरुः।
दैत्यमन्त्री गुरुस्तेषां प्राणदश्च महामतिः।
प्रभुस्ताराग्रहाणां च पीडां हरतु मे भृगुः।
सूर्यपुत्रो दीर्घदेहो विशालाक्षः शिवप्रियः।
मन्दचारः प्रसन्नात्मा पीडां हरतु मे शनिः।
महाशिरा महावक्त्रो दीर्घदंष्ट्रो महाबलः।
अतनुश्चोर्ध्वकेशश्च पीडां हरतु मे तमः।
अनेकरूपवर्णैश्च शतशोऽथ सहस्रशः।
उत्पातरूपो जगतां पीडां हरतु मे शिखी।
गणेश अपराध क्षमापण स्तोत्र
कृता नैव पूजा मया भक्त्यभावात् प्रभो मन्दिरं नैव दृष्टं ....
Click here to know more..गुरुवायुपुरेश स्तोत्र
कल्याणरूपाय कलौ जनानां कल्याणदात्रे करुणासुधाब्धे। शङ....
Click here to know more..आध्यात्मिक अभिवृद्धि के लिए हंस गायत्री मंत्र
हंसहंसाय विद्महे परमहंसाय धीमहि । तन्नो हंसः प्रचोदयात....
Click here to know more..