जपाकुसुमसङ्काशं काश्यपेयं महाद्युतिम्।
तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम्|
दधिशङ्खतुषाराभं क्षीरोदार्णवसंभवम्।
नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम्|
धरणीगर्भसंभूतं विद्युत्कान्तिसमप्रभम्।
कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम्|
प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम्।
सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम्|
देवानाञ्च ऋषीणाञ्च गुरुं काञ्चनसन्निभम्।
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्|
हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम्।
सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम्|
नीलाञ्जनसमाभासं रविपुत्रं यमाग्रजम्।
छायामार्ताण्डसम्भूतं तं नमामि शनैश्चरम्|
अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम्।
सिंहिकागर्भसम्भूतं तं राहुं प्रणमाम्यहम्|
पलाशपुष्पसङ्काशं तारकाग्रहमस्तकम्।
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम्|
इति व्यासमुखोद्गीतं यः पठेत् सुसमाहितः।
दिवा वा यदि वा रात्रौ विघ्नशान्तिर्भविष्यति|
नरनारीनृपाणां च भवेद् दुःस्वप्ननाशनम्।
ऐश्वर्यमतुलं तेषामारोग्यं पुष्टिवर्धनम्|
ग्रहनक्षत्रजाः पीडास्तस्कराग्निसमुद्भवाः।
ताः सर्वाः प्रशमं यान्ति व्यासो ब्रूते न संशयः|
अन्नपूर्णा अष्टोत्तर शतनामावलि
ॐ दक्षाध्वरविनाशिन्यै नमः। ॐ सर्वार्थदात्र्यै नमः। ॐ स....
Click here to know more..दक्षिणामूर्ति अष्टोत्तर शत नामावलि
ॐ सुचेतनाय नमः। ॐ मतिप्रज्ञासुधारकाय नमः। ॐ मुद्रापुस्....
Click here to know more..प्रतिद्वंद्वियों पर विजय के लिए मंत्र
मा नो विदन् विव्याधिनो मो अभिव्याधिनो विदन् । आराच्छरव्....
Click here to know more..