अथ ऋणग्रस्तस्य ऋणविमोचनार्थं अङ्गारकस्तोत्रम्।
स्कन्द उवाच -
ऋणग्रस्तनराणां तु ऋणमुक्तिः कथं भवेत्।
ब्रह्मोवाच -
वक्ष्येऽहं सर्वलोकानां हितार्थं हितकामदम्।
अस्य श्री अङ्गारकमहामन्त्रस्य गौतम-ऋषिः। अनुष्टुप् छन्दः।
अङ्गारको देवता। मम ऋणविमोचनार्थे अङ्गारकमन्त्रजपे विनियोगः
ध्यानम् -
रक्तमाल्याम्बरधरः शूलशक्तिगदाधरः।
चतुर्भुजो मेषगतो वरदश्च धरासुतः।
मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः।
स्थिरासनो महाकायो सर्वकामफलप्रदः।
लोहितो लोहिताक्षश्च सामगानां कृपाकरः।
धरात्मजः कुजो भौमो भूमिदो भूमिनन्दनः।
अङ्गारको यमश्चैव सर्वरोगापहारकः।
सृष्टेः कर्ता च हर्ता च सर्वदेशैश्च पूजितः।
एतानि कुजनामानि नित्यं यः प्रयतः पठेत्।
ऋणं न जायते तस्य श्रियं प्राप्नोत्यसंशयः।
अङ्गारक महीपुत्र भगवन् भक्तवत्सल।
नमोऽस्तु ते ममाशेषमृणमाशु विनाशय।
रक्तगन्धैश्च पुष्पैश्च धूपदीपैर्गुडोदनैः।
मङ्गलं पूजयित्वा तु मङ्गलाहनि सर्वदा।
एकविंशतिनामानि पठित्वा तु तदन्तिके।
ऋणरेखा प्रकर्तव्या अङ्गारेण तदग्रतः।
ताश्च प्रमार्जयेन्नित्यं वामपादेन संस्मरन्।
एवं कृते न सन्देहो ऋणान्मुक्तः सुखी भवेत्।
महतीं श्रियमाप्नोति धनदेन समो भवेत्।
भूमिं च लभते विद्वान् पुत्रानायुश्च विन्दति।
सुब्रह्मण्य कवच
नारद उवाच- देवेश श्रोतुमिच्छामि ब्रह्मन् वागीश तत्त्वत....
Click here to know more..गौरी स्तुति
अभिनव- नित्याममरसुरेन्द्रां विमलयशोदां सुफलधरित्रीम्....
Click here to know more..कुसुमस्तबकस्येव
अच्छे लोग पुष्प के गुच्छ के समान होते हैं । या तो वे सभी लो....
Click here to know more..