चंद्र ग्रह स्तुति

चन्द्रः कर्कटकप्रभुः सितनिभश्चात्रेयगोत्रोद्भवो
ह्याग्नेयश्चतुरस्रवास्तु सुमुखश्चापोऽप्युमाधीश्वरः।
षट्सप्तानिदशैकशोभनफलः शौरिप्रियोऽर्को गुरुः
स्वामी यामुनदेशजो हिमकरः कुर्यात्सदा मङ्गलम्।
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजाविधिं न हि जानामि मां क्षमस्व निशाकर।
मन्त्रहीनं क्रियाहीनं भक्तिहीनं कलानिधे।
यत्पूजितं मया देव परिपूर्णं तदस्तु मे।
रोहणीश सुधामूर्ते सुधारूप सुधाशन।
सोम सौम्य भवाऽस्माकं सर्वारिष्टं निवारय।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

20.8K

Comments

ndtpp

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |