विश्वेशमादित्यसमप्रकाशं
पृषत्कचापे करयोर्दधानम्।
सदा हि साकेतपुरप्रदीप-
मानन्दवर्धं प्रणमामि रामम्।
नानागुणैर्भूषितमादिदेवं
दिव्यस्वरूपं विमलं मनोज्ञम्।
आपत्सु रक्षाकरमीशचाप-
भङ्गं सुसङ्गं प्रणमामि रामम्।
सीतापतिं सर्वनतं विनीतं
सर्वस्वदातारमनन्तकीर्तिम्।
सिद्धैः सुयुक्तं सुरसिद्धिदान-
कर्तारमीशं प्रणमामि रामम्।
शुभप्रदं दाशरथं स्वयंभुं
दशास्यहन्तारमुरं सुरेड्यम्।
कटाक्षदृष्ट्या करुणार्द्रवृष्टि-
प्रवर्षणं तं प्रणमामि रामम्।
मुदाकरं मोदविधानहेतुं
दुःस्वप्नदाहीकरधूमकेतुम्।
विश्वप्रियं विश्वविधूतवन्द्य-
पदाम्बुजं तं प्रणमामि रामम्।
रामस्य पाठं सततं स्तुतेर्यः
करोति भूतिं करुणां सुरम्याम्।
प्राप्नोति सिद्धिं विमलां च कीर्ति-
मायुर्धनं वंशबले गुणं च।
कल्पेश्वर शिव स्तोत्र
जीवेशविश्वसुरयक्षनृराक्षसाद्याः यस्मिंस्थिताश्च खलु ....
Click here to know more..ललितांबा स्तुति
का त्वं शुभकरे सुखदुःखहस्ते त्वाघूर्णितं भवजलं प्रबलोर....
Click here to know more..सुरक्षा के लिए राहु मंत्र
ॐ नीलाम्बराय विद्महे शूलधराय धीमहि। तन्नो राहुः प्रचोद....
Click here to know more..