आपदामपहर्तारं दातारं सर्वसम्पदाम्।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम्।
आर्तानामार्तिहन्तारं भीतानां भीतिनाशनम्।
द्विषदां कालदण्डं च रामचन्द्रं नमाम्यहम्।
नमः कोदण्डहस्ताय सन्धीकृतशराय च।
खण्डिताखिलदैत्याय रामायापन्निवारिणे।
अग्रतः पृष्ठतश्चैव पार्श्वतश्च महाबलौ।
आकर्णपूर्णधन्वानौ रक्षेतां रामलक्ष्मणौ।
सन्नद्धः कवची खड्गी चापबाणधरो युवा।
गच्छन् ममाग्रतो नित्यं रामः पातु सलक्ष्मणः।
रामाय रामभद्राय रामचन्द्राय वेधसे।
रघुनाथाय नाथाय सीतायाः पतये नमः।
सीतापति पंचक स्तोत्र
भक्ताह्लादं सदसदमेयं शान्तं रामं नित्यं सवनपुमांसं देव....
Click here to know more..राम पंचरत्न स्तोत्र
योऽत्रावतीर्य शकलीकृत- दैत्यकीर्ति- र्योऽयं च भूसुरवरा....
Click here to know more..कठोपनिषद - भाग २