व्रजे प्रसिद्धं नवनीतचौरं
गोपाङ्गनानां च दुकूलचौरम् ।
अनेकजन्मार्जितपापचौरं
चौराग्रगण्यं पुरुषं नमामि ॥
श्रीराधिकाया हृदयस्य चौरं
नवाम्बुदश्यामलकान्तिचौरम् ।
पदाश्रितानां च समस्तचौरं
चौराग्रगण्यं पुरुषं नमामि ॥
अकिञ्चनीकृत्य पदाश्रितं यः
करोति भिक्षुं पथि गेहहीनम् ।
केनाप्यहो भीषणचौर ईदृग्-
दृष्टः श्रुतो वा न जगत्त्रयेऽपि ॥
यदीय नामापि हरत्यशेषं
गिरिप्रसारान् अपि पापराशीन् ।
आश्चर्यरूपो ननु चौर ईदृग्
दृष्टः श्रुतो वा न मया कदापि ॥
धनं च मानं च तथेन्द्रियाणि
प्राणांश्च हृत्वा मम सर्वमेव ।
पलायसे कुत्र धृतोऽद्य चौर
त्वं भक्तिदाम्नासि मया निरुद्धः ॥
छिनत्सि घोरं यमपाशबन्धं
भिनत्सि भीमं भवपाशबन्धम् ।
छिनत्सि सर्वस्य समस्तबन्धं
नैवात्मनो भक्तकृतं तु बन्धम् ॥
मन्मानसे तामसराशिघोरे
कारागृहे दुःखमये निबद्धः ।
लभस्व हे चौर हरे चिराय
स्वचौर्यदोषोचितमेव दण्डम् ॥
कारागृहे वस सदा हृदये मदीये
मद्भक्तिपाशदृढबन्धननिश्चलः सन् ।
त्वां कृष्ण हे प्रलयकोटिशतान्तरेऽपि
सर्वस्वचौर हृदयान् न हि मोचयामि ॥
विष्णु सहस्रनाम
ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नव....
Click here to know more..आत्म तत्व संस्मरण स्तोत्र
प्रातः स्मरामि हृदि संस्फुरदात्मतत्त्वं सच्चित्सुखं प....
Click here to know more..दुर्गा सप्तशती - अर्गला और कीलक स्तोत्र
अथाऽर्गलास्तोत्रम् अस्य श्री-अर्गलास्तोत्रमन्त्रस्य....
Click here to know more..