देवं गिरिवंश्यं गौरीवरपुत्रं
लम्बोदरमेकं सर्वार्चितपत्रम्।
संवन्दितरुद्रं गीर्वाणसुमित्रं
रक्तं वसनं तं वन्दे गजवक्त्रम्।
वीरं हि वरं तं धीरं च दयालुं
सिद्धं सुरवन्द्यं गौरीहरसूनुम्।
स्निग्धं गजमुख्यं शूरं शतभानुं
शून्यं ज्वलमानं वन्दे नु सुरूपम्।
सौम्यं श्रुतिमूलं दिव्यं दृढजालं
शुद्धं बहुहस्तं सर्वं युतशूलम्।
धन्यं जनपालं सम्मोदनशीलं
बालं समकालं वन्दे मणिमालम्।
दूर्वार्चितबिम्बं सिद्धिप्रदमीशं
रम्यं रसनाग्रं गुप्तं गजकर्णम्।
विश्वेश्वरवन्द्यं वेदान्तविदग्धं
तं मोदकहस्तं वन्दे रदहस्तम्।
शृण्वन्नधिकुर्वन् लोकः प्रिययुक्तो
ध्यायन् च गणेशं भक्त्या हृदयेन।
प्राप्नोति च सर्वं स्वं मानमतुल्यं
दिव्यं च शरीरं राज्यं च सुभिक्षम्।
संतान गोपाल स्तोत्र
अथ सन्तानगोपालस्तोत्रम् ॐ श्रीं ह्रीं क्लीं ग्लौम्। दे....
Click here to know more..हनुमान बाहुक स्तोत्र
सिंधु तरन, सिय-सोच हरन, रबि बाल बरन तनु । भुज बिसाल, मूरति क....
Click here to know more..सुरक्षा के लिए हनुमान मंत्र
कशिं कुक्ष वरवर अञ्जनावरपुत्र आवेशयावेशय ॐ ह्रीं हनुमन....
Click here to know more..