गृत्समद उवाच -
मदासुरः प्रणम्यादौ परशुं यमसन्निभम् ।
तुष्टाव विविधैर्वाक्यैः शस्त्रं ब्रह्ममयं भयात् ॥१॥
मदासुर उवाच -
नमस्ते शस्त्रराजाय नमस्ते परशो महन् ।
तेजःपुञ्जमयायैव कालकालाय ते नमः ॥२॥
एकदन्तस्य यद्वीर्यं स्वधर्मस्थापनात्मकम् ।
त्वमेव नात्र सन्देहो रक्ष मां शरणागतम् ॥३॥
अतस्त्वां प्रणमाम्येव ज्योतीरूपं महाद्भुतम् ।
रक्ष मां भयभीतं वै शरणागतवत्सल ॥४॥
कालरूपस्त्वमेवेह महाप्रलयसूचकः ।
कः समर्थश्च ते वेगसहने देहधारकः ॥५॥
नमस्ते एकदन्ताय मायामायिकरूपिणे ।
सदा ब्रह्ममयायैव गणेशाय नमो नमः ॥६॥
मूषकारूढरूपाय मूषकध्वजिने नमः ।
सर्वत्र संस्थितायैव बन्धहीनाय ते नमः ॥७॥
चतुर्बाहुधरायैव लम्बोदर सुरूपिणे ।
नाभिशेषाय वै तुभ्यं हेरम्बाय नमो नमः ॥८॥
चिन्तामणिधरायैव चित्तस्थाय गजानन ।
नानाभूषणयुक्ताय गणाधिपतये नमः ॥९॥
अनन्तविभवायैवानन्तमायाप्रचालक! ।
भक्तानन्दप्रदात्रे ते विघ्नेशाय नमो नमः ॥१०॥
योगिनां योगदात्रे ते योगानां पतये नमः ।
योगाकारस्वरूपाय ह्येकदन्तप्रधारिणे ॥११॥
मायाकारं शरीरं ते एकशब्दः प्रकथ्यते ।
दन्तः सत्तामयस्तत्र मस्तकस्ते नमो नमः ॥१२॥
मायासत्ताविहीनस्त्वं तयोर्योगधरस्तथा ।
कस्त्वां स्तोतुं समर्थः स्यादतस्ते वै नमो नमः ॥१३॥
शरणागतपालाय शरणागतवत्सल ।
पुनः पुनः सिद्धिबुद्धिपते तुभ्यं नमो नमः ॥१४॥
रक्ष मामेकदन्तस्त्वं शरणागतमञ्जसा ।
भक्तं भावेन संप्राप्तं संसारात्तारयस्व च ॥१५॥
नव दुर्गा स्तुति
वृषारूढा सैषा हिमगिरिसुता शक्तिसरिता त्रिशूलं हस्तेऽस....
Click here to know more..वक्रतुंड स्तुति
सदा ब्रह्मभूतं विकारादिहीनं विकारादिभूतं महेशादिवन्द....
Click here to know more..भगवान कार्त्तिकेय की कृपा के लिए मंत्र
कार्त्तिकेयाय विद्महे सुब्रह्मण्याय धीमहि तन्नः स्कन्....
Click here to know more..