अद्वैतवास्तवमतेः प्रणमज्जनानां सम्पादनाय धृतमानवसिंहरूपम् ।
प्रह्लादपोषणरतं प्रणतैकवश्यं देवं मुदा कमपि नौमि कृपासमुद्रम् ॥
नतजनवचनऋतत्वप्रकाशकालस्य दैर्घ्यमसहिष्णुः ।
आविर्बभूव तरसा यः स्तम्भान्नौमि तं महाविष्णुम् ॥
वक्षोविदारणं यश्चक्रे हार्दं तमो हन्तुम् ।
शत्रोरपि करुणाब्धिं नरहरिवपुषं नमामि तं विष्णुम् ॥
रिपुहृदयस्थितराजसगुणमेवासृङ्मिषेण करजाग्रैः ।
धत्ते यस्तं वन्दे प्रह्लादपूर्वभाग्यनिचयमहम् ॥
प्रह्लादं प्रणमज्जनपङ्क्तेः कुर्वन्ति दिविषदो ह्यन्ये ।
प्रह्लादप्रह्लादं चित्रं कुरुते नमामि यस्तमहम् ॥
शरदिन्दुकुन्दधवलं करजप्रविदारितासुराधीशम् ।
चरणाम्बुजरतवाक्यं तरसैव ऋतं प्रकुर्वदहमीडे ॥
मुखेन रौद्रो वपुषा च सौम्यः सन्कञ्चनार्थं प्रकटीकरोषि ।
भयस्य कर्ता भयहृत्त्वमेवेत्याख्याप्रसिद्धिर्यदसंशयाऽभूत् ॥
निर्गुण मानस पूजा स्तोत्र
शिष्य उवाच- अखण्डे सच्चिदानन्दे निर्विकल्पैकरूपिणि। स्....
Click here to know more..गंगा लहरी स्तोत्र
समृद्धं सौभाग्यं सकलवसुधायाः किमपि तन् महैश्वर्यं लीला....
Click here to know more..ब्रह्माजी सृष्टि के प्रारंभ के बारे में कहते हैं