नरहरि स्तोत्र

उदयरविसहस्रद्योतितं रूक्षवीक्षं
प्रलयजलधिनादं कल्पकृद्वह्निवक्त्रम्।
सुरपतिरिपुवक्षश्छेदरक्तोक्षिताङ्गं
प्रणतभयहरं तं नारसिंहं नमामि।
प्रलयरविकरालाकाररुक्चक्रवालं
विरलय दुरुरोचीरोचिताशान्तराल।
प्रतिभयतमकोपात्त्युत्कटोच्चाट्टहासिन्
दह दह नरसिंहासह्यवीर्याहितं मे।
सरसरभसपादापातभाराभिराव
प्रचकितचलसप्तद्वन्द्वलोकस्तुतस्त्त्वम्।
रिपुरुधिरनिषेकेणैव शोणाङ्घ्रिशालिन्
दह दह नरसिंहासह्यवीर्याहितं मे।
तव घनघनघोषो घोरमाघ्राय जङ्घा-
परिघमलघुमूरुव्याजतेजो गिरिञ्च।
घनविघटतमागाद्दैत्यजङ्घालसङ्घो
दह दह नरसिंहासह्यवीर्याहितं मे।
कटकिकटकराजद्धाट्टकाग्र्यस्थलाभा
प्रकटपटतटित्ते सत्कटिस्थातिपट्वी।
कटुककटुकदुष्टाटोपदृष्टिप्रमुष्टौ
दह दह नरसिंहासह्यवीर्याहितं मे।
प्रखरनखरवज्रोत्खातरोक्षारिवक्षः
शिखरिशिखररक्त्यराक्तसन्दोह देह।
सुवलिभशुभकुक्षे भद्रगम्भीरनाभे
दह दह नरसिंहासह्यवीर्याहितं मे।
स्फुरयति तव साक्षात्सैव नक्षत्रमाला
क्षपितदितिजवक्षोव्याप्तनक्षत्रमार्गम्।
अरिदरधरजान्वासक्तहस्तद्वयाहो
दह दह नरसिंहासह्यवीर्याहितं मे।
कटुविकटसटौघोद्घट्टनाद्भ्रष्टभूयो
घनपटलविशालाकाशलब्धावकाशम्।
करपरिघविमर्दप्रोद्यमं ध्यायतस्ते
दह दह नरसिंहासह्यवीर्याहितं मे।
हठलुठदलघिष्टोत्कण्ठदष्टोष्ठविद्युत्
सटशठकठिनोरः पीठभित्सुष्ठुनिष्ठाम्।
पठतिनुतव कण्ठाधिष्ठ घोरान्त्रमाला
दह दह नरसिंहासह्यवीर्याहितं मे।
हृतबहुमिहिराभासह्यसंहाररंहो
हुतवहबहुहेतिह्रेपिकानन्तहेति।
अहितविहितमोहं संवहन् सैंहमास्यं
दह दह नरसिंहासह्यवीर्याहितं मे।
गुरुगुरुगिरिराजत्कन्दरान्तर्गतेव
दिनमणिमणिश‍ृङ्गे वन्तवह्निप्रदीप्ते।
दधदतिकटुदंष्प्रेभीषणोज्जिह्ववक्त्रे
दह दह नरसिंहासह्यवीर्याहितं मे।
अधरितविबुधाब्धिध्यानधैर्यं विदीध्य
द्विविधविबुधधीश्रद्धापितेन्द्रारिनाशम्।
विदधदति कटाहोद्घट्टनेद्धाट्टहासं
दह दह नरसिंहासह्यवीर्याहितं मे।
त्रिभुवनतृणमात्रत्राणतृष्णन्तु नेत्र-
त्रयमति लघितार्चिर्विष्टपाविष्टपादम्।
नवतररविताम्रं धारयन् रूक्षवीक्षं
दह दह नरसिंहासह्यवीर्याहितं मे।
भ्रमदभिभवभूभृद्भूरिभूभारसद्भिद्-
भिदनभिनवविदभ्रूविभ्रमादभ्रशुभ्र।
ऋभुभवभयभेत्तर्भासि भो भो विभोऽभि-
र्दह दह नरसिंहासह्यवीर्याहितं मे।
श्रवणखचितचञ्चत्कुण्डलोच्चण्डगण्ड
भ्रुकुटिकटुललाट श्रेष्ठनासारुणोष्ठ।
वरद सुरद राजत्केसरोत्सारितारे
दह दह नरसिंहासह्यवीर्याहितं मे।
प्रविकचकचराजद्रत्नकोटीरशालिन्
गलगतगलदुस्रोदाररत्नाङ्गदाढ्य।
कनककटककाञ्चीशिञ्जिनीमुद्रिकावन्
दह दह नरसिंहासह्यवीर्याहितं मे।
अरिदरमसिखेटौ बाणचापे गदां सन्-
मुसलमपि दधानः पाशवर्याङ्कुशौ च ।
करयुगलधृतान्त्रस्रग्विभिन्नारिवक्षो
दह दह नरसिंहासह्यवीर्याहितं मे।
चट चट चट दूरं मोहय भ्रामयारिन्
कडि कडि कडिकायं ज्वारय स्फोटयस्व।
जहि जहि जहि वेगं शात्रवं सानुबन्धं
दह दह नरसिंहासह्यवीर्याहितं मे।
विधिभव विबुधेश भ्रामकाग्निस्फुलिङ्ग
प्रसविविकटदंष्ट्र प्रोज्जिह्ववक्त्र त्रिनेत्र।
कलकलकलकामं पाहिमां ते सुभक्तं
दह दह नरसिंहासह्यवीर्याहितं मे।
कुरु कुरु करुणां तां साङ्कुरां दैत्यपोते
दिश दिश विशदां मे शाश्वतीं देवदृष्टिम्।
जय जय जय मुर्तेऽनार्त जेतव्य पक्षं
दह दह नरसिंहासह्यवीर्याहितं‌ मे।
स्तुतिरियमहितघ्नी सेविता नारसिंही
तनुरिवपरिशान्ता मालिनी साऽभितोऽलम्।
तदखिलगुरुमाग्र्यश्रीधरूपालसद्भिः
सुनियमनयकृत्यैः सद्गुणैर्नित्ययुक्ताः।
लिकुचतिलकसूनुः सद्धितार्थानुसारी
नरहरिनुतिमेतां शत्रुसंहारहेतुम्।
अकृतसकलपापध्वंसिनीं यः पठेत्तां
व्रजति नृहरिलोकं कामलोभाद्यसक्तः।

Ramaswamy Sastry and Vighnesh Ghanapaathi

18.0K

Comments

butb2

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |