यं ध्यायसे स क्व तवास्ति देव इत्युक्त ऊचे पितरं सशस्त्रम्।
प्रह्लाद आस्तेऽखिलगो हरिः स लक्ष्मीनृसिंहोऽवतु मां समन्तात्।
तदा पदाताडयदादिदैत्यः स्तम्भो ततोऽह्नाय घुरूरुशब्दम्।
चकार यो लोकभयङ्करं स लक्ष्मीनृसिंहोऽवतु मां समन्तात्।
स्तम्भं विनिर्भिद्य विनिर्गतो यो भयङ्कराकार उदस्तमेघः।
जटानिपातैः स च तुङ्गकर्णो लक्ष्मीनृसिंहोऽवतु मां समन्तात्।
पञ्चाननास्यो मनुजाकृतिर्यो भयङ्करस्तीक्ष्णनखायुधोऽरिम्।
धृत्वा निजोर्वोर्विददार सोऽसौ लक्ष्मीनृसिंहोऽवतु मां समन्तात्।
वरप्रदोक्तेरविरोधतोऽरिं जघान भृत्योक्तमृतं हि कुर्वन्।
स्रग्वत्तदन्त्रं निदधौ स्वकण्ठे लक्ष्मीनृसिंहोऽवतु मां समन्तात्।
विचित्रदेहोऽपि विचित्रकर्मा विचित्रशक्तिः स च केसरीह।
पापं च तापं विनिवार्य दुःखं लक्ष्मीनृसिंहोऽवतु मां समन्तात्।
प्रह्लादः कृतकृत्योऽभूद्यत्कृपालेशतोऽमराः।
निष्कण्टकं स्वधामापुः श्रीनृसिंहः स पाति माम्।
दंष्ट्राकरालवदनो रिपूणां भयकृद्भयम्।
इष्टदो हरति स्वस्य वासुदेवः स पातु माम्।
गणनायक स्तोत्र
गुणग्रामार्चितो नेता क्रियते स्वो जनैरिति। गणेशत्वेन श....
Click here to know more..महालक्ष्मी अष्टोत्तर शतनामावलि
ॐ अम्बिकायै नमः । ॐ सिद्धेश्वर्यै नमः । ॐ चतुराश्रमवाण्य....
Click here to know more..अधिक से अधिक धन के लिए लक्ष्मी देवी मंत्र
भूयाद्भूयो द्विपद्माऽभयवरदकरा तप्तकार्तस्वराभा शुभ्....
Click here to know more..