मन्दाकिनी स्तोत्र

जयतु जयतु मन्दाकिनि तव सलिलं धवलम् ।
नय विलयं भागीरथि नम दुरितं निखिलम् ॥

शं तनु शन्तनुदयिते सदया भव भवपतिते ।
शमय विषयमलमलिनं मे जननि मानसम् ॥

सुरतटिनी सुरसुखदा वसुजननी त्वं वसुधा ।
अघनाशिनि सुखदा त्वं भवसि जननि सततम् ॥

मीना ये तव सलिले तरवस्तव ये पुलिने ।
अमरा अपि काङक्षन्ते तद्भाग्यं विपुलम् ॥

सुरसेव्यं तव तीरं मधुमधुरं तव नीरम् ।
भवतु सदा गङ्गे तव चरणं मम शरणम् ॥

हरिचरणान्निर्याता हरशीर्षे विश्रान्ता ।
अपनय मम मानसमलमधुना त्वं प्रबलम् ॥

हिमशिशिरं विधुधवलं पावनतरमतिरुचिरम् ।
विलसतु मम वदने तव गङ्गे जलमनिशम् ॥

तव चरणे लीनोऽहं स्मरणे तव मग्नोऽहम् ।
शरणागतदीनं मां जननि पाहि तनयम् ॥

भालचन्द्रशीर्षस्था तनुषे त्वं मङ्गलताम्
नवसुषमां मन्दाकिनि वहसि त्वं रम्याम् ॥

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2025 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |
Vedahdara - Personalize
Whatsapp Group Icon
Have questions on Sanatana Dharma? Ask here...