ललिता स्तव

कलयतु कवितां सरसां कविहृद्यां कालकालकान्ता मे।
कमलोद्भवकमलासखकलितप्रणतिः कृपापयोराशिः।
एनोनीरधिनौकामेकान्तवासमौनरतलभ्याम्।
एणाङ्कतुल्यवदनामेकाक्षररूपिणीं शिवां नौमि।
ईक्षणनिर्जितहरिणीमीप्सितसर्वार्थदानधौरेयाम्।
ईडितविभवां वेदैरीशाङ्कनिवासिनीं स्तुवे देवीम्।
ललितैः पदविन्यासैर्लज्जां तनुते यदीयपदभक्तः।
लघु देवेन्द्रगुरोरपि ललितां तां नौमि सन्ततं भक्त्या।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

39.0K

Comments

qs7c5

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |