ललिता अष्टोत्तर शतनामावलि

ॐ शिवप्रियायै नमः ।
ॐ शिवाराध्यायै नमः ।
ॐ शिवेष्टायै नमः ।
ॐ शिवकोमलायै नमः ।
ॐ शिवोत्सवायै नमः ।
ॐ शिवरसायै नमः ।
ॐ शिवदिव्यशिखामण्यै नमः ।
ॐ शिवपूर्णायै नमः ।
ॐ शिवघनायै नमः ।
ॐ शिवस्थायै नमः ॥ 10॥
ॐ शिववल्लभायै नमः ।
ॐ शिवाभिन्नायै नमः ।
ॐ शिवार्धाङ्ग्यै नमः ।
ॐ शिवाधीनायै नमः ।
ॐ शिवङ्कर्यै नमः ।
ॐ शिवनामजपासक्तयै नमः ।
ॐ शिवसान्निध्यकारिण्यै नमः ।
ॐ शिवशक्त्यै नमः ।
ॐ शिवाध्यक्षायै नमः ।
ॐ शिवकामेश्वर्यै नमः ॥ 20॥
ॐ शिवायै नमः ।
ॐ शिवयोगीश्वरीदेव्यै नमः ।
ॐ शिवाज्ञावशवर्तिन्यै नमः ।
ॐ शिवविद्यातिनिपुणायै नमः ।
ॐ शिवपञ्चाक्षरप्रियायै नमः ।
ॐ शिवसौभाग्यसम्पन्नायै नमः ।
ॐ शिवकैङ्कर्यकारिण्यै नमः ।
ॐ शिवाङ्कस्थायै नमः ।
ॐ शिवासक्तायै नमः ।
ॐ शिवकैवल्यदायिन्यै नमः ॥ 30॥
ॐ शिवक्रीडायै नमः ।
ॐ शिवनिधये नमः ।
ॐ शिवाश्रयसमन्वितायै नमः ।
ॐ शिवलीलायै नमः ।
ॐ शिवकलायै नमः ।
ॐ शिवकान्तायै नमः ।
ॐ शिवप्रदायै नमः ।
ॐ शिवश्रीललितादेव्यै नमः ।
ॐ शिवस्य नयनामृतायै नमः ।
ॐ शिवचिण्तामणिपदायै नमः ॥ 40॥
ॐ शिवस्य हृदयोज्ज्वलायै नमः ।
ॐ शिवोत्तमायै नमः ।
ॐ शिवाकारायै नमः ।
ॐ शिवकामप्रपूरिण्यै नमः ।
ॐ शिवलिङ्गार्चनपरायै नमः ।
ॐ शिवालिङ्गनकौतुक्यै नमः ।
ॐ शिवालोकनसंतुष्टायै नमः ।
ॐ शिवलोकनिवासिन्यै नमः ।
ॐ शिवकैलसनगरस्वामिन्यै नमः ।
ॐ शिवरञ्जिन्यै नमः ॥ 50॥
ॐ शिवस्याहोपुरुषिकायै नमः ।
ॐ शिवसंकल्पपूरकायै नमः ।
ॐ शिवसौन्दर्यसर्वाङ्ग्यै नमः ।
ॐ शिवसौभाग्यदायिन्यै नमः ।
ॐ शिवशब्दैकनिरतायै नमः ।
ॐ शिवध्यानपरायणायै नमः ।
ॐ शिवभक्तैकसुलभायै नमः ।
ॐ शिवभक्तजनप्रियायै नमः ।
ॐ शिवानुग्रहसम्पूर्णायै नमः ।
ॐ शिवानन्दरसार्णवायै नमः ॥60॥
ॐ शिवप्रकाशसन्तुष्टायै नमः ।
ॐ शिवशैलकुमारिकायै नमः ।
ॐ शिवास्यपङ्कजार्काभायै नमः ।
ॐ शिवान्तःपुरवासिन्यै नमः ।
ॐ शिवजीवातुकलिकायै नमः ।
ॐ शिवपुण्यपरम्परायै नमः ।
ॐ शिवाक्षमालासंतृप्तायै नमः ।
ॐ शिवनित्यमनोहरायै नमः ।
ॐ शिवभक्तशिवज्ञानप्रदायै नमः ।
ॐ शिवविलासिन्यै नमः ॥ 70॥
ॐ शिवसम्मोहनकर्यै नमः ।
ॐ शिवसाम्राज्यशालिन्यै नमः ।
ॐ शिवसाक्षाद्ब्रह्मविद्यायै नमः ।
ॐ शिवताण्डवसाक्षिण्यै नमः ।
ॐ शिवागमार्थतत्त्वज्ञायै नमः ।
ॐ शिवमान्यायै नमः ।
ॐ शिवात्मिकायै नमः ।
ॐ शिवकार्यैकचतुरायै नमः ।
ॐ शिवशास्त्रप्रवर्तकायै नमः ।
ॐ शिवप्रसादजनन्यै नमः ॥ 80॥
ॐ शिवस्य हितकारिण्यै नमः ।
ॐ शिवोज्ज्वलायै नमः ।
ॐ शिवज्योतिषे नमः ।
ॐ शिवभोगसुखंकर्यै नमः ।
ॐ शिवस्य नित्यतरुण्यै नमः ।
ॐ शिवकल्पकवल्लर्यै नमः ।
ॐ शिवबिल्वार्चनकर्यै नमः ।
ॐ शिवभक्तार्तिभञ्जनायै नमः ।
ॐ शिवाक्षिकुमुदज्योत्स्नायै नमः ।
ॐ शिवश्रीकरुणाकरायै नमः ॥ 90॥
ॐ शिवानन्दसुधापूर्णायै नमः ।
ॐ शिवभाग्याब्धिचन्द्रिकायै नमः ।
ॐ शिवशक्त्यैक्यललितायै नमः ।
ॐ शिवक्रीडारसोज्ज्वलायै नमः ।
ॐ शिवप्रेममहारत्नकाठिन्यकलशस्तन्यै नमः ।
ॐ शिवलालितलाक्षार्द्रचरणाम्बुजकोमलायै नमः ।
ॐ शिवचित्तैकहरणव्यालोलघनवेणिकायै नमः ।
ॐ शिवाभीष्टप्रदानश्रीकल्पवल्लीकरांबुजायै नमः ।
ॐ शिवेतरमहातापनिर्मूलामृतवर्षिण्यै नमः ।
ॐ शिवयोगीन्द्रदुर्वासमहिम्नस्तुतितोषितायै नमः ॥ 100॥
ॐ शिवसम्पूर्णविमलज्ञानदुग्धाब्धिशायिन्यै नमः ।
ॐ शिवभक्ताग्रगण्येशविष्णुब्रह्मेन्द्रवन्दितायै नमः ।
ॐ शिवमायासमाक्रान्तमहिषासुरमर्दिन्यै नमः ।
ॐ शिवदत्तबलोन्मत्तशुम्भाद्यसुरनाशिन्यै नमः ।
ॐ शिवद्विजार्भकस्तन्यज्ञानक्षीरप्रदायिन्यै नमः ।
ॐ शिवातिप्रियभक्तादिनन्दिभृङ्गिरिटिस्तुतायै नमः ।
ॐ शिवानलसमुद्भूतभस्मोद्धूलितविग्रहायै नमः ।
ॐ शिवज्ञानाब्धिपारज्ञमहात्रिपुरसुन्दर्यै नमः ॥ 108॥

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

18.1K
1.1K

Comments

w34nm

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |