आञ्जनेय पंचरत्न स्तोत्र

रामायणसदानन्दं लङ्कादहनमीश्वरम्।
चिदात्मानं हनूमन्तं कलयाम्यनिलात्मजम्।
अञ्जनासूनुमव्यक्तं रामदूतं सुरप्रियम्।
चिदात्मानं हनूमन्तं कलयाम्यनिलात्मजम्।
शिवात्मानं कपिश्रेष्ठं ब्रह्मविद्याविशारदम्।
चिदात्मानं हनूमन्तं कलयाम्यनिलात्मजम्।
लोकबन्धुं कृपासिन्धुं सर्वजन्तुप्ररक्षकम्।
चिदात्मानं हनूमन्तं कलयाम्यनिलात्मजम्।
वीरपूज्यं महाबाहुं कमलाक्षं च धैर्यदम्।
चिदात्मानं हनूमन्तं कलयाम्यनिलात्मजम्।
हनूमत्पञ्चकस्तोत्रं विधिवद्यः सदा पठेत्।
लभेत वाञ्छितं सर्वं विद्यां स्थैर्यं जनो ध्रुवम्।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

43.7K

Comments

zza3q

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |