कुरुसदसि कृताभूद्द्रौपदीवस्त्रशेषा
सकलनृपवरेन्द्रा यत्र वक्तुं न शक्ताः ।
हरिचरणरताङ्गी येन तत्रात्मधीरा
स भवतु मम भूत्यै विठ्ठलेशः सहायः ॥ १॥
प्रथमजननपापप्राप्तसम्प्रेतदेहौ
समय इह ममास्मिन्कृष्णभक्त्या समेतौ ।
गलितपतितवेषावुद्धतौ येन सद्यः
स भवतु मम भूत्यै विठ्ठलेशः सहायः ॥ २॥
कमलदलसुनेत्रेणैव भूतेशमाया-
ततिभिरिव हि येन भ्रामितः सर्वलोकः ।
अखिलजगति सर्वस्वीयभक्ताः कृतार्थाः
स भवतु मम भूत्यै विठ्ठलेशः सहायः ॥ ३॥
सकलयदुकुलेन्द्रो येन कंसो हतोऽभूत्
जननसमयपूर्वं देवकीशूरयोश्च ।
परिहृतमपि दुःखं यामिका मोहिताश्च
स भवतु मम भूत्यै विठ्ठलेशः सहायः ॥ ४॥
तपनदुहितुरन्तः कालियो मारितः सन्
अलिगणसुहितेऽस्मिंस्तत्फणे येन नृत्यम् ।
कृतमपि च तदम्भो लम्भितं निर्विषत्वं
स भवतु मम भूत्यै विठ्ठलेशः सहायः ॥ ५॥
कपटकृतशरीरा पूतना प्रापिताऽभ्रं
व्रजपतिगृहसुप्तावेकपादेन येन ।
शकट असुरवेषः प्रेषितः स्थाननाशं
स भवतु मम भूत्यै विठ्ठलेशः सहायः ॥ ६॥
पदनतियुतहस्ता तोषिता येन कुन्ती
ह्यसुरकुलसमूहा हिंसिता वीर्यवन्तः ।
अखिलभुवनभारः प्रेषितः संलघुत्वं
स भवतु मम भूत्यै विठ्ठलेशः सहायः ॥ ७॥
अखिलसुरकुलेन्द्रस्यैव येनाभिमानो
गिरिवरधरणेन क्षीणतां प्रापितश्च ।
जलधरभवधाराः संहृता ग्रावयुक्ताः
स भवतु मम भूत्यै विठ्ठलेशः सहायः ॥ ८॥
विट्ठलेशाष्टकमिदं प्रातरुत्थाय यः पठेत् ।
भक्त्या नत्वा च सुमनाः स याति परमां गतिम् ॥ ९॥