श्रीवेङ्कटेशपदपङ्कजधूलिपङ्क्तिः
संसारसिन्धुतरणे तरणिर्नवीना ।
सर्वाघपुञ्जहरणाय च धूमकेतुः
पायादनन्यशरणं स्वयमेव लोकम् ॥
शेषाद्रिगेह तव कीर्तितरङ्गपुञ्ज
आभूमिनाकमभितः सकलान् पुनानः ।
मत्कर्णयुग्मविवरे परिगम्य सम्यक्
कुर्यादशेषमनिशं खलु तापभङ्गम् ॥
वैकुण्ठराजसकलोऽपि धनेशवर्गो
नीतोऽपमानसरणिं त्वयि विश्वसित्रा ।
तस्मादयं न समयः परिहासवाचाम्
इष्टं प्रपूर्य कुरु मां कृतकृत्यसङ्घम् ॥
श्रीमन्नारास्तु कतिचिद्धनिकांश्च केचित्
क्षोणीपतीन् कतिचिदत्र च राजलोकान् ।
आराधयन्तुमलशून्यमहं भवन्तं
कल्याणलाभजननायसमर्थमेकम् ॥
लक्ष्मीपतित्वमखिलेश तव प्रसिद्धमत्र
प्रसिद्धमवनौमदकिञ्चनत्वम् ।
तस्योपयोगकरणायमया त्वया च
कार्यः समागमैदं मनसि स्थितं मे ॥
शेषाद्रिनाथ भवताऽयमहं सनाथः
सत्यं वदामि भगवंस्त्वमनाथ एव ।
तस्मात् कुरुष्व मदभीप्सितकृत्यजाल-
मेवत्वदीप्सित कृतौ तु भवान् समर्थः ॥
क्रुद्धो यदा भवसि तत्क्षणमेव भूपो
रङ्कायते त्वमसि चेत्खलु तोषयुक्तः ।
भूपायतेऽथ निखिलश्रुतिवेद्यरङ्क
इच्छाम्यतस्तव दयाजलवृष्टिपातम् ॥
अङ्गीकृतं सुविरुदं भगवंस्त्वयेति
मद्भक्तपोषणमहं सततं करोमि ।
आविष्कुरुस्वमयि सत्सततं प्रदीने
चिन्ताप्रहारमयमेवहियोग्यकालः ॥
सर्वासु जातिषु मयातु समत्वमेव
निश्चीयतेतव विभो करुणाप्रवाहात् ।
प्रह्लादपाण्डुसुतबल्लव गृघ्रकादौ
नीचो न भाति मम कोऽप्यत एव हेतोः ॥
सम्भावितास्तु परिभूतिमथ प्रयान्ति
धूर्ताजपं हि कपटैकपरा जगत्याम् ।
प्राप्तेतु वेङ्कटविभो परिणामकाले
स्याद्वैपरीत्यमिव कौरवपाण्डवानाम् ॥
श्रीवेङ्कटेश तव पादसरोजयुग्मे
संसारदुःखशमनाय समर्पयामि ।
भास्वत्सदष्टकमिदं रचितं
प्रभाकरोऽहमनिशं विनयेन युक्तः ॥
श्रीशालिवाहनशकेशरकाष्टभूमि-
सङ्ख्यामितेऽथविजयाभिधवत्सरेऽयम् ।
श्रीकेशवात्मजेदं व्यतनोत् समल्पं
स्तोत्रम्प्रभाकर इति प्रथिताभिधाना ॥